________________
জলাষ্টমালা रावशेषाप्रेक्षया सामान्यस्य शाहलस्य ग्राहकत्वेनावग्रहत्वमेव स्यादिस्यमाया. पलाप एव प्रसज्येतेति समाधत्ते ।
पृ. ५. पं. २५ मैवमिति-अस्य शब्दोऽयमिति ज्ञानस्य । ननु बृहद्विविशेषावगाहिज्ञानत्वमपायत्वं, स्तोकविशेषावगाहित्वमर्थावग्रहत्वमिति शब्दोऽयमिति ज्ञानस्य शब्दमात्रस्तोकविशेषावगाहित्येनार्थाक्ग्रहन्वं, शाङ्खोऽयमितिज्ञानस्य तु बृहविशेषावगाहित्वेनापायत्वमिति सुव्यवस्थितत्वमर्थावग्रहापाययोरिति पराकूतप्रतिविधानायाह ।
पृ. ५. पं. २६ स्तोकग्रहणस्येति-एवमुपगमे समुच्छिन्नवापायकथा, उत्तरोत्तरविशेषावगाहिज्ञानापेक्षया पूर्वपूर्वविशेषग्रहणस्य स्तोकविशेषविषयकत्वेनार्थावग्रहत्वस्यैव प्राप्तेरित्यभिसन्धिः । अपि च शब्दगतानुगामिधर्माणां शब्दभिबेभ्यो रूपादिभ्यो व्यावृत्तिग्रहणे सत्येव शब्दोऽयमिति लक्षणोऽर्थावग्रहो भवेत् , अशब्दाव्यावृत्तत्वग्रहेऽशब्दत्वसद्भावसंशये शब्दत्वनिश्चयासम्भवात् , शब्दा. न्वयधर्माणामन्यव्यावृत्तिग्रहणश्च विमर्शलक्षणेहामन्तरेण न सम्भवदुक्तिकं, तथा च पूर्वमीहाभाव एव शब्दोऽयमिति ग्रहः, तथा च कुतोऽस्यार्थावग्रहत्वं, व्यञ्जनावग्रहानन्तरसमुद्भूतस्यैवार्थावग्रहत्वस्यासाभिरुपगमादस्य चानैवम्भावादित्याह ।
पृ. ५. पं. २७ किश्चेति-भवतूतार्थावग्रहात्पूर्वमीहा किलछिन्नमित्यत आह ।
पृ. ५. पं. २८ सा चेति-ईहा पुनरित्यर्थः, भवतु गृहीत एवार्थे ईहासमुदयः, इहातः प्रागर्थग्रहणमपि स्वीकरिष्याम इत्यत आह ।
पृ. ६. पं. १ तद्ग्रहणमिति-यसिन्गृहीते ईहा स्यात्तत्सामान्यार्थग्रहपामित्यर्थः ।
पृ. ६. पं. १ अस्मदभ्युपगतेति-अग्रमभिप्रायः, यदेतदीहार्थमीहातः प्राक्सामान्यार्थावग्रहणं तत्कालः कश्चिदवश्यमभ्युपेयः, स यद्यमदभ्युपगतार्थावग्रहकाल एव तदाऽसदभ्युपगतार्थावग्रह एवायमर्थावग्रहः स्यात , तथा च तदनन्तरोत्पन्नेहानन्तरजायमानस्य शब्दोऽयमिति ज्ञानस्यापायस्वमेव कमीकतं