________________
७.
१. प्रमाणपरिच्छेदः । शब्द इति भण्यते, तद्भणनेन यद्वस्तुस्थित्या शब्द इत्येवंस्वरूपशद्रवाच्यं नान्यद्रूपरसादीति समाधत्ते । ___ पृ. ५. पं. १८ न "शब्दः" इति वक्त्रैव-अवग्रहविषयवक्त्रा मूत्रकृतैव, अथवा तत्र शब्द इति शरमात्रपरं, तेन च रूपरसादिभ्यस्तस्य व्यावतकस्य शब्दत्त्वलक्षणावान्तरसामान्यविशेषस्य ग्रहणव्यवच्छेदः । तथा च रूपरसादिव्यावृत्तिमत्तयाऽनवधृतं शद्भत्वेनानिश्चितं वस्तुमात्रमवगृह्यतं इति तदर्थ इत्याह । . पृ. ५. पं. १९ रूपरसादीति-किश्च शद्भवाच्यत्वेन शद्धवस्तुनोऽवग्रहे भाने तस्य शरोऽयमित्याकारः स्यादिति शब्दोल्लेखस्यान्तर्मुहूर्तिकत्वादेकसामयिकत्वन्तस्य सिद्धान्तसिद्धं भज्यतेत्याह ।
पृ. ५. पं. २० यदि चेति-ननु प्रथमसमय एव शब्दोऽयमित्याकारको ऽर्थावग्रहोऽस्तु, तत्र शब्दमात्रत्वेन यद्भानं तदेव सामान्यग्रहणं, तदनन्तरं प्रायः शाखेनानेन भवितव्यं, शाङ्खशद्वधर्मस्य माधुर्यादेरत्र सम्भवात् , शाङ्गशदधर्मस्य कर्कशत्वादेरत्रानवलोकनादिति विमर्शबुद्धिरीहा, तत शाङ्ख एवायमिति ज्ञानमपायोऽस्त्विति शङ्कते। - पृ. ५. पं. २२ स्यान्मतम्-'शब्दोऽयम्' इति सामान्यविशेष. ग्रहणमिति-शब्दत्वलक्षणस्य महासामान्यसत्यापेक्षयाऽवान्तरसामान्यस्य ग्रहणम् , अपीत्यनेन सत्तामात्रेण शद्भग्रहणस्यार्थावग्रहत्वाभ्यनुज्ञानम् , ईहापूर्ववर्तित्वे सत्येवायं शद्ध इति ज्ञानस्यार्थावग्रहत्वं युज्येतातः तदनन्तरमीहासम्भवं दर्शयति ।
पृ. ५. पं. २३ तदुत्तरमिति-शब्दोऽयमिति ज्ञानानन्तरमित्यर्थः । शद्रोऽयमित्येवं निश्चयात्मकावग्रहे नाशद्धोऽयमित्येवमशब्देभ्यो रूपादिभ्यो व्यावृत्तिग्रहणमवश्यमेवेष्टं भवेत् । अशद्धव्यावृत्तिग्रहणमन्तरेण शब्दत्वनिश्चयस्यासम्भवात्तथा च विशेषाध्यवसायित्वेनापायत्वमेवास्य स्यान्नार्थावग्रहत्वं, यदि च शाङ्खत्वादिव्याप्यजात्यपेक्षया शद्धत्वस्य सामान्यत्वमिति तद्रूपावगाहिज्ञानस्य सामान्यग्रहणत्वेनार्थावग्रहणत्वमिष्यते तदा शाङ्खोऽयमिति ज्ञानस्यापि तदवान्त