________________
७८
। जैनतर्कभाषा। देरपि, तथा च यथा स्वाभिधेयानर्थान् भाषमाणैव भाषा, स्वविषयीभूतानर्थानवबुध्यमानान्येवावध्यादिज्ञानानि स्वस्वरूपमासादयन्ति तथा स्वविषयभूतानोन् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, ततश्चार्थानुपलब्धिकालाभावान मनसो व्यञ्जनावहसम्भव इति, इत्थमुपपादितं नयनमनसोय॑ञ्जनावग्रहासम्भव मुपसंहरति तदेवमिति ॥ इति व्यञ्जनावग्रहनिरूपणम् ॥
॥ अथ अर्थावग्रहनिरूपणम् ।।
अवग्रहस्य द्वितीय भेदमावग्रहं लक्षयति । पृ. ५. पं. १६ स्वरूपेति-स्वरूपञ्च, नाम च, जातिश्च, क्रिया च, गुणश्च द्रव्यंच स्वरूपनामजातिक्रियागुणद्रव्याणि, तेषां कल्पना स्वरूपादिप्रकारेणार्थावगाहिता तया रहितं यत्सामान्यग्रहणं, अवान्तरविशेषानवगाहिवस्तुसामान्यस्वरूपावगाहिज्ञानं तदर्थावग्रह इत्यर्थः । अत्र स्वरूपेत्यादिसामान्यग्रहणमित्यन्तं लक्षणनिर्देशः, अर्थावग्रह इति लक्ष्यनिर्देशः । ननु स्वरूपनामादिकल्पनारहितार्थज्ञानस्यार्थावग्रहत्वे तद्विषयः स्वरूपनामादिरहितोऽवग्रहीत इति प्राप्तं, तथा च “से जहानामए केइ पुरिसे अव्वत्तं सई सुणेजत्ति तेणं सद्देत्तिउग्गहिए न उण जाणइ के वेस सदा इति" नन्द्यध्यनसूत्रे "तेणं सद्देति उग्गाहिए" इत्यनेन तेन प्रतिपत्त्रार्थावग्रहेण शब्दोऽवगृहीत इति प्रतिपादितोऽर्थः शब्दोल्लेखाकलितो विरुद्धः स्यात् , तस्य शब्दाद्युल्लेखरहितत्वेनाभिमतार्थावग्रहविषयत्वासम्भवादिति शङ्कते ।
पृ. ५. पं. १७ कथमिति-अस्य सूत्रार्थ इत्यनेनान्वयः ।
पृ. ५. पं. १८ सूत्रार्थ:-उक्तनन्धध्ययनसूत्रैकदेशार्थः, कथमित्याक्षेपे, विरोधादुक्तसूत्रार्थो न घटत ३त्यर्थः, सूत्रार्थाघटने हेतुमाह।
पृ. ५. पं. १८ तत्रेति-तेन शब्द इत्यवगृहीत इत्यसिन्नित्यर्थः, एकसामयिकेऽर्थावग्रहे नामाद्युल्लेखस्यासम्भवान शब्दात्मकवस्तुनि तद्वाचकस्य शब्द इत्येवंरूपस्य शब्दस्य योजनाऽवगृह्यते, किन्तु शब्दस्य यत्सामान्यमात्रं स्वरूपं तदेवावान्तरसामान्यविशेषशब्दत्वादिविनिर्मोकेण रूपरसादिशब्दान्यविशेषव्याकृत्यनाकलितरूपतयाऽवगृह्यते, तथाविधे चावग्रहे शब्दवाच्यत्वेन शब्दामकवस्तु नावभासत एव, केवलमवग्रहविषयवस्तुनः परिचयार्थ वात्रा सूत्रकृतेव