________________
१. प्रमाणपरिच्छेदः ।। तदग्रहणे तन्निबन्धनं व्यञ्जनावग्रहमननं युज्येतापि । बाह्यविषयापेक्षयैव प्राप्यापाप्यकारित्वविचार इन्द्रियादेरधिकृतः, न तु यदन्तस्सदैव सन्निहितं तदपेक्षया, तत्र विषादाभावादिति समाधत्ते ।
पृ. ५. पं. ६ शृणु; ग्रहणं हि मनः इति-गृह्यते अवगम्यते शब्दादिरर्थोऽनेनेति व्युत्पत्त्या यतो ग्रहणं मन इत्यर्थः ।
पृ. ५. पं. ८ तदवकाशः-व्यञ्जनावग्रहावकाशः । स्वसन्निहितहृदया. दिचिन्तनवेलायामपि व्यञ्जनावग्रहावकाशो नास्तीत्याह ।
पृ. ५. पं. ८ सन्निहितेति-सम्बन्धस्य व्यजनावग्रहव्यवहारनिबन्धनस्य भावे कथं न व्यञ्जनावग्रहावकाश इत्यपेक्षायामाह ।
पृ. ५. पं. ९ बाह्यार्थापेक्षयैवेति-अपि च मनसः स्वकीयहृदयादिचिन्तनवेलायां प्राप्यकारित्वासम्भवेऽपि व्यञ्जनावग्रहस्य न सम्भवः, यतः क्षयोपशमपाटवेन तस्य प्रथममानुपलब्धिकालासम्भवेन प्रथमसमय एव चक्षुरादीन्द्रियस्येवार्थावग्रहस्यैव समुत्पादात् । श्रोत्रादीन्द्रियस्य तु तादृशक्षयोपशमपाटकाभावेन प्रथममर्थानुपलब्धिसम्भवेन प्रथमं व्यञ्जनावग्रहस्य युक्तत्वादित्याह ।
पृ. ५. पं. १० क्षयोपशम पाटवेनेति-ननु मनः श्रोत्रादीन्द्रियजज्ञानेऽपि व्यापिपर्तीति, तत्रापि प्रथममर्थावग्रह एव स्यादित्यत आह ।
पृ. ५. पं. ११ श्रोत्रेति-तथा च श्रोत्रादीन्द्रियजज्ञानस्थले न पूर्व मनसोव्यापारः, किन्तु व्यञ्जनावग्रहानन्तरमेवेति तदनन्तरमेवार्थावग्रहो न प्रथमसमय इति, मनशब्दस्यान्वर्थताप्येवं सत्येव घटत इत्यतस्तस्य स्वविषयग्रहणे श्रोत्रादीन्द्रियोपयोगकाले चार्थावग्रहकालादारभ्यैव व्यापारोऽर्थावबोधस्वभावे मनसि अर्थानवबोधस्वभावस्य व्यञ्जनावग्रहस्य न सम्भव इत्याह ।
पृ. ५. पं. १२ मनुतेर्थानिति-इदं च कर्त्तरि, करणे आह ।
पृ. ५. पं. १२ मन्यत इति–मनः शब्दस्यान्वर्थाभिधानत्वेऽनुगुणंदृष्टान्तमाह।
पः ५. पं. १४ अर्थभाषणमिति-भाषाया इत्युपलक्षणमवध्यादिज्ञाना