________________
जैनतर्कभाषा। गृह्णाति जीवः । इत्थश्च यानि मनोद्रव्याणि जीवगृहीतानि, यश्च तत्सम्बन्धः, स 'व्यञ्जनावग्रह एव, यथा श्रोत्रादीन्द्रियेण गृह्यमाणानि शब्दादिपरिणतद्रव्याणि तत्सम्बन्धो वा व्यञ्जनावग्रह इति मनसःस्यादेव व्यञ्जनावग्रह इति शङ्कते ।
पृ. ५. पं. २ नन्विति प्रतिसमयमिति-च्छमस्थोपयोगसम्बन्धिष्वसख्येयसमयेषु प्रत्येकं तत्तत्समयमित्यर्थः ।
पृ. ५: पं. ४ ग्रहणात्-जीवेन ग्रहणात् , इत्थं च । पृ. ५. पं. ४ विषयं-मेर्वादिकं प्रति । पृ. ५. पं. ४ असम्प्राप्तस्यापि-अगतस्यापि ।
पृ. ५. पं. ५ देहादनिर्गतस्यापि-शरीरादहिरनिर्गतस्यापि । मनसः कथं व्यञ्जनावग्रहो न भवतीति सम्बन्धः। तथा च विषयासम्प्राप्तावपि मनसो व्यञ्जनावग्रह उक्तदिशा स्यादेवेति भावः । यदि च मनसो विषय प्राप्तौ सत्यामेव व्यञ्जनावग्रहो, नान्यथा, श्रोत्रादीन्द्रियेष्वेवमेव दर्शनादिति भवताम्मतिस्तदापि स्वस्थानस्थितस्यापि मनसो देहादनिर्गतस्यापि हृदयादिकमतीवसन्निहितत्वादतिसम्बद्धं स्वकार्य वा चिन्तयता ज्ञेयेन स्वकायस्थितहृदयादिना सम्बन्धलक्षणो व्यञ्जनावग्रहः स्यादेवेत्याह ।
पृ. ५. पं. ५ तस्य च इति-देहादनिर्गतस्य मनसश्चेत्यर्थः ।
पृ. ५: पं. ५ स्वसन्निहितेति-स्वाधिष्ठितकाय स्थितत्वेन स्वातिसम्बद्धेत्यर्थः । हृदयादीत्यादिपदात्स्वाधिष्ठितकायादेरप्युपग्रहः ।
पृ. ५. पं. ६ कथं व्यञ्जनावग्रहो न भवेदिति-अन्यत्र व्यञ्जनावग्रहव्यवहारनिबन्धनस्यातिसम्बद्धत्वस्यात्रापि सद्भावाद्वयञ्जनावग्रहः स्यादेवेति भावः । चिन्ताद्रव्यमनसो ग्रहणत्वमेव न ग्राह्यत्वं, ततो ग्राह्यवस्तुग्रहण एव व्यञ्जनावग्रहोऽधिकृतः, स च बाह्यवस्तुमेरुशिखरादिग्रहणे तेन समं मनसम्प्राप्ती सत्यां सम्भवी, मनोद्रव्यं तु न ग्राह्यतया गृह्यत इति तत्सम्बन्धे व्यञ्जनावग्रहत्वं न युक्तिसङ्गतं, स्वकायसनिहितहृदयादिकं तत्तु सर्वदैव सन्निहितं न तु सर्वदाऽऽत्मप्रदेशेन सम्बद्धं, तत्कदाप्यसम्बद्धं, येन तद्वयतिरेके तदग्रहणे तसिन्