________________
१. प्रमाणपरिच्छेदः । स्वमानुभूतकामिनीकृतनखदन्तच्छदाद्यदर्शनेन च तदानीं सन्निहितैव कामिनीत्यस्य वक्तुमशक्यत्वादिति समाधत्ते । व्यञ्जनविसर्गलक्षणं-शुक्रस्खलनरूपं ।
पृ. ४. पं. २६ तदिति-क्रियाफलत्वेनाभिमतं स्वप्ने व्यञ्जनविसर्गस्वरूपं . कार्यमित्यर्थः।
पृ. ४. पं. २७ को दोष इति-एवमभ्युपगमे न कोऽपि दोष इत्यर्थः । ननु स्त्यानद्धिनिद्रोदयकः पुमान् तदानीं यत्किमपि करोति तत्स्वमकृतमेवासौ जानाति, यतस्तदानीमस्यैवमभिमानः प्रादुरस्ति "द्विरददन्तोत्पाटनादिकं सर्वमिदमहं स्वप्ने पश्यामीति" तथा च तस्य द्विरददन्तोत्पाटनादिक्रियाकलापकालः स्वमकाल एव, तदानीमस्य द्विरददन्तोत्पाटनादिका क्रिया मनोविकल्पपूर्विकैवेति मनसः प्राप्यकारित्वं, ततो मनसो व्यञ्जनावग्रहः सिद्धिपथमेवेति तदानीं च यद्गीतादिकं स शृणोति तत्रापि मनस एव व्यापार इति मनोविकल्पपूर्वका तत्कालीनगीतादिश्रवणादपि मनः प्राप्यकारि सिद्धयन्मनोव्यञ्जनावग्रहं साधयदेव भविष्यतीति शङ्कते ।
पृ. ४. पं. २८ ननु स्त्यानर्द्धिनिद्रोदये-इति-गाढनिद्रोदय. इत्यर्थः । एतदनन्तरं प्रेक्षणकनृत्यस्थानादिगतस्येति दृश्यम् । स्त्यानद्धिनिद्रोदये वर्तमानस्य प्राणिनो द्विरददन्तोत्पाटनादिकं मांसाद्यभक्ष्यभक्षणादिकञ्च कुर्वतोऽस्वममपि स्वमम्मन्यमानस्य व्यञ्जनावग्रहो न मनसः, किन्तु प्राप्यकारिणां स्वस्वविषये व्याप्रियमाणानां श्रवणरसनघ्राणस्पर्शनानामेव, तथा प्रेक्षणकनृत्य स्थानादिगतस्य गाढनिद्रोदयवशीभूतस्य तस्य गीतादिश्रवणे श्रवणेन्द्रियस्यैव व्यञ्जनावग्रहः, यत एवम्भूतस्यापि बधिरस्य न भवत्येव गीतादिश्रवणं, मनसा तु तद्भावे बधिरस्यापि मनसस्सद्भावात्तद्भवेदिति न मनोव्यञ्जनावग्रहता, तद्वयञ्जनावग्रहस्य सतोऽपि नातोऽपि मनसः प्राप्यकारितेति समाधत्ते ।
पृ. ५. पं. १ न; तदा-स्त्यानद्धिनिद्रोदयसमये । ननु भविष्यच्च्यवनं जानाति भूतञ्च च्यवनमवगच्छति वर्तमानच्यवनन्तु न जानातीत्याद्यर्थप्रतिपादनपराच्च्यवमानो न जानातीति वचनात् सिद्धान्ते सोऽपि च्छद्मस्थोपयोगोऽस. ङ्खयेयैस्समयैर्न तु एकद्वयादिसमयैः, एवञ्चोपयोगसम्बन्धिनोऽसङ्ख्येयास्सम. यास्सिद्धाः, तेषु सर्वेष्वपि समयेषु प्रत्येकमनन्तानि मनोगव्याणि मनोवर्गणाभ्यो