________________
जैमर्कमाया।
पृ ४ पं १३ मृतेति जायमानावित्यस्य उपघातानुग्रहा वित्यनेनान्वयः, मृष्टादिवस्तुचिन्तने दौर्बल्योरःक्षतादिलिङ्गक उपघातः, इष्टसङ्गविभवलाभादिचिन्तने वदनविकासरोमाचोद्गमादिलिङ्गकोऽनुग्रहश्च न मनस इत्यर्थः । अत्र मनः मृतनष्टादिवस्तुचिन्तननिमित्तकोपघातवत् मृतनष्टादिवस्तुचिन्तनानन्तरं दौर्बल्योरःक्षतादिमत्वात् मनः इष्टसङ्गमविभव लाभादिचिन्तननिमित्तकानुग्रहवत् इष्टसङ्गमविभवलाभादिचिन्तनानन्तरे वनविकासरोमाञ्चगमादिमत्वादिति प्रयोगौ दृष्टव्यौ । यदीमानुपघातानुग्रहौ न मनसः तर्हि कस्य तौ ? नैमौ निराश्रयौ सम्भवत इत्याशयेन पृच्छति ।
पृ. ४. पं. १५ किन्त्विति - उत्तरयति ।
७१
"
पृ. ४. पं. १५ मनस्त्वेति- मनस्त्वरूपेण परिणतानि यानि अनिष्टेष्टपुगुलनिश्चयरूपाणि द्रव्याणि तद्रूपं यन्मनः तदवष्टम्भेन तदात्मकनिमित्तेन जीवस्यैवोपघानानुग्रहौ मृतनष्टादिवस्तु चिन्तनेष्टसङ्गमविभव लाभचिन्तनाभ्यामित्यर्थः । अन्यावष्टम्भेन जीवस्योपघातानुग्रहौ भवत इत्यत्र निदर्शनमाह ।
पू. ४. पं. १६ हृन्निरुद्धेति-हृदि निरुद्धः कफादिदोषप्राबल्येनावरुद्धः अधउर्द्धवं च गन्तुमसमर्थस्तत्रैव मोलादिरूपपरिणामेनावस्थितो य उदानादिवायुस्तेन जीवस्योपघातः वायुपशामकभेषजेनौषधविशेषेणानुग्रहश्च यथा तथेत्यर्थः । विषयदेशे मनोगमनस्य प्रतीत्या विषयीक्रियमाणत्वात्प्राप्यकारित्वमेव मनस इत्याशङ्कते ।
"
पृ. ४. पं. १७ नन्विति अत्र मनो विषयं प्राप्य परिच्छिनत्ति, प्रसुप्तस्य " मेर्वादौ गतं मे मनः इति प्रत्ययस्य तथैवोपपत्तेरिति प्रयोगोऽत्र ज्ञेयः । प्रसुप्तस्य स्वस्वनानुभवदशायां भवति प्रतीतिः " अहमिदानीं मेरुशिखरे ऽनुपमकुसुमपरिमलामोदमनुभवन्नस्मीति " परन्तु तच्छरीरं शयनदेशस्थितमेव निकटसंस्थितैः सर्वैरपि प्रमातृभिरनुभूयत इत्यवश्यमेवाभ्युपगन्तव्यम् । यदुत तच्छरीरं तद्देशस्थितमेव मेरुशिखरगततया प्रतीयत इति तज्ज्ञानं भ्रमो यथा तथा मनोऽपि शरीरान्तर्गतमेव मेर्वादिगततया प्रतीयत इति तज्ज्ञानमसत्यमेवेति नातो मनसो मेर्वादिदेशगमनसिद्धिरिति समाधत्ते ।
पृ. ४. पं, १९ नेति - शरीरमपि सुप्तस्य मेरुदेशादिगमनस्वप्रदर्शनसमये