________________
१. प्रमाणपरिच्छेदः ।
मेर्बादौ गच्छत्येवेति दृष्टान्तासिद्धिरित्याशङ्कायामाह ।
पृ. ४. पं. २० अन्यथेति तदानीं शरीरस्य मेर्वादिदेशगमने इत्यर्थः । प्र. ४. पं. २० विबुद्धस्य - स्वममनुभूय प्रबोधदशामुपगतस्य ।
पृ. ४. पं. २० कुसुमेति कुसुमपरिमलाघ्राणजनितामन्दानन्दलक्षणानुग्रहस्यातिदूरमेरुशिखरगमनागमनप्रयुक्ता तिशीघ्राय सभ्रान्तशरीराङ्गोपाङ्गपीडाप्रभबदुःखौघ लक्षणोपघातस्य च प्रसङ्गात् न च तदानीं कुसुमपरिमलकणिका - प्याघ्रायते, न वाध्वपरिभ्रम लेशोऽपि समस्तीति, न स्वमकाले मेर्वादौ शरीरगमनं, न वा मनसोऽपिगमनमित्य प्राप्तकार्येव मन इत्यर्थः । ननु विबुद्धस्यानुग्रहोपघाताभावात्स्वमस्यासत्यत्वमिति न ततो मनसो मेरुगमनसिद्धिरिति भवदभिप्रायो न युक्तो, विबुद्धस्य स्वनानुभूतसुखरागलिङ्गस्य खमानुभूतदुःखद्वेपलिङ्गविषादस्य च दर्शनेनानुग्रहोपघातस्य भावात् । यतः
स्वप्ने दृष्टो मयाद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे ।
द्वात्रिंशद्भिः सुरेन्द्रैरहमहमिकया स्नाप्यमानः सुमेरौ ॥ तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो । द्रष्टव्यो यो महीयान् परिहरति भयं देहिनां संस्मृतोऽपि ॥ १ ॥ एतत्पद्यतो विबुद्धस्य स्वनानुभूतसुखरागलिङ्गहर्षस्य ।
तथा
प्राकारत्रयतुङ्गतोरणमणिप्रेङ्खदप्रभाव्याहताः ।
नष्टाः क्वापि रवेः करा द्रुततरं यस्यां प्रचण्डा अपि ॥ तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनों ।
हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता ॥ २ ॥ इत्यस्मात्पद्याद्विबुद्धस्य स्वमानुभृतदुःखद्वेषलिङ्गविषादस्यावगतेरित्याशङ्कते । पृ. ४. पं. २१ नन्विति-स्वप्नानुभूतजिनस्नात्रदर्शनतोऽनुग्रहः स्वनानुभूतसमीहितार्थलाभत, उपघातश्च विबुद्धस्य सतः जाग्रदशामुपगतस्य सतः पुरुषस्यो
૧૦