________________
१. प्रमाणपरिच्छेदः। पृ. ४. पं. ६ नयन-मनोवर्जेन्द्रियेति-नयनमनोभिन्नेत्यर्थः।
पृ. ४. पं. ६ चतुर्धेति-श्रावणघ्राणजरासनत्वाचव्यञ्जनावग्रहा इत्यर्थः । नयनमनसोः कुतो न व्यजनावग्रह इत्यपेक्षायामाह ।
पृ. ४. पं. ६ नयनमनसोरिति-विषयेण सह संयुज्य ज्ञानलक्षणकार्यकारित्वं श्रोत्रादीन्द्रियाणां प्राप्यकारित्वं, नयनमनसोस्तु स्वविषयेण सह संयोगलक्षणसम्बन्धमन्तरेणैव स्वकार्यकारित्वमित्यप्राप्यकारित्वेन तयोर्व्यजनावग्रहासिद्धेरित्यर्थः।
पृ. ४. पं. ७ अन्यथा-चक्षुर्मनसोःप्राप्यकारित्वाभ्युपगमे । पृ. ४. पं. ७ तयोः-चक्षुर्मनसोः ।
पृ. ४. पं. ८ जलेति-चक्षुषा जलदर्शने जलेन संयुज्यमानस्य चक्षुषः क्लेदः स्यात् , एवं चक्षुषाऽनलस्य दर्शने अनलेन संयुक्तस्य चक्षुषो दाहः स्यादित्येवं जललक्षणज्ञेयकृतोऽनुग्रहोऽनललक्षणज्ञेयकृत उपघातश्चक्षुषः प्रसज्येत, तथा मनसा जलस्य चिन्तने जलेन संयुक्तस्य मनसस्तद्रूपज्ञेयकृतक्लेदलक्षणोऽनुग्रहोऽनलस्य चिन्तने तेन संयुक्तस्य मनसस्तद्रूपज्ञेयकृतदाहलक्षण उपघातश्च मनसः प्रसज्येतेत्यर्थः । चक्षुषो ज्ञेयकृतानुग्रहोपघातौ क्वचिदृश्येते एवेत्युक्तापादानं नानिष्टमिति शङ्कते।
पृ. ४. पं. ९ रविचन्द्राद्यवलोकन इति-सूर्यावलोकने यदि चक्षुषः सूर्येण संयोगस्तदा सकृद्रविदर्शनेऽपि चक्षुषः उपघातः स्यात् , न च तथा भवति, अनवरतसूर्यावलोकने तु सूर्यकिरणा एव चक्षुर्देशम्प्राप्तास्तं तापयन्तीति; एवं चन्द्रदर्शने तु उपघातामावत एवानुग्रहाभिमान इति न चक्षुषो रविचन्द्रदेशम्प्रतिगमने नानुग्रहोपघाताविति समाधत्ते ।
पृ. ४. पं. १० न; प्रथमावलोकनसमये इति तददर्शनात्-सूर्यावलोकनेनोपघातस्य चन्द्रावलोकनेनानुग्रहस्य चादर्शनात् , मनसोऽपि विषयविशे. षचिन्तने यावनुग्रहोपघातौ दृश्येते तौ न मनसः किन्तु जीवस्यैव ताविति न ताभ्यां मनसोऽपि प्राप्यकारित्वसिद्धिरित्याह ।