________________
जैनतर्कभाषा। ___ पृ. ४. पं. ३ तत्कालेऽपि-इन्द्रियार्थसम्बन्धकालेऽपि बधिरादीनां तु श्रोत्रशब्दादिसम्बन्धानन्तरमर्थावग्रहरूपज्ञानस्यादर्शनेन न तन्कालेऽअव्यक्तज्ञानकल्पनमित्याशयः। नन्वव्यक्तज्ञानमन्यत्र ने क्वापि दृश्यत इति प्रकृतेऽपि तादृशज्ञानकल्पनाऽदृष्टचरी न भद्रेत्यत आह ।।
पृ. ४. पं. ३ चेष्टेति-सुप्तस्य चेष्टाविशेषं दृष्ट्वा तन्निकटस्थः तदीयं स्वप्न ज्ञानमनुमिनोति, सुप्तश्च तदानीं जायमानमपि स्वप्नज्ञानमव्यक्तत्वान्नावधारयति, सुप्तोत्थितः पुनस्तच्चेष्टानुमिततदीयज्ञानेन पुंसा तथा प्रतिबोध्यमानः कथयत्यपि किञ्चित्किञ्चिदनुभवंस्तदानीमहमासं, न तु तज्ज्ञानं व्यक्तमतः किं मया तदानीं दृष्टमिति न स्मरामि, एवञ्चाव्यक्तमपि यथा तज्ज्ञानं तथेदमपि व्यञ्जनावग्रहपदवाच्यमिन्द्रियार्थसन्निकर्षकाले समस्तीति । अत्र यज्ज्ञेयवस्तूपादानतो यदनन्तरं ज्ञानमुपजायते तज्ज्ञानं, यथाऽर्थावग्रहज्ञेयवस्तूपादानतोऽर्थावग्रहानन्तरमीहाज्ञानं प्रादुर्भवतीत्यथोवग्रहबानम्, व्यजनावग्रहज्ञेयवस्तूपादानतो व्यञ्जनावग्रहानन्तरं भवत्यर्थावग्रह इति व्यजनावग्रहो ज्ञानमित्यनुमानप्रयोगः। ननु प्रकाशस्वभावे ज्ञानेऽव्यक्तता नोपपद्यते, न हि प्रकाशस्वभावेऽव्यक्तता क्वचिदपि दृष्टेत्यत आह ।
_पृ. ४. पं. ४ एकतेजोऽवयववदिति-प्रचुरतरतेजोऽवयवाः प्रकाशस्त्रभावा यद्यपि दृश्यन्त एव तथाप्येकस्तेजोऽवयवोऽतिसूक्ष्म प्रकाशस्वभावोऽपि न दर्शनपथमुपयाति तथा व्यजनावग्रहो ज्ञानस्वभावत्वेन प्रकाशस्वभावोऽप्यतीवाल्पमित्यतोऽव्यक्तं तज्ज्ञानं स्वसंवेदनेनापि न व्यक्तमपि व्यज्यत इति भावः ।
पृ. ४. पं. ५ तस्य-व्यजनावग्रहस्य ।
पृ. ४. पं. ५ तनुत्वेन-अतिसूक्ष्मत्वेन ।
पृ. ४. पं. ५ अनुपलक्षणात्-स्वसंवेदने सत्यपि तेन व्यक्तमनवभास नात् , तत्स्वसंविदितमपि न भवतीति तु न वाच्यं, ज्ञानमात्रस्य जडेभ्यो वैलक्षण्याथं स्वसंविदितत्वस्यावश्यमभ्युपेयत्वात् , अन्यथा सर्वथाऽभासमाने तसिन् जडत्वस्यैवापत्तेरिति बोध्यम् । व्यजनावग्रहस्य भेदं दर्शयति । .
पृ. ४. पं. ६ स चेति-व्यञ्जनावग्रहश्चेत्यर्थः ।