________________
१. प्रमाणपरिच्छेदः । पृ. ३. पं. २७ अवग्रहोऽव्यक्तज्ञानम् , तेनार्थावग्रहाद्भेदः, अर्थविषयकत्वभावाभावाभ्यामव्यक्तत्वव्यक्तत्वाभ्यां विशेषात् । यद्यपि नैश्चयिकार्थावग्रहस्याव्यक्तत्वमेव तथाप्यस्य ज्ञानत्वाभ्युपगमपक्षे एतदपेक्षया तस्य व्यक्तत्वस्याप्युररीकरणीयत्वादिति बोध्यम् । ननु इन्द्रियार्थयोः सम्बन्धकालेऽर्थावग्रहपूर्वकनिनि ज्ञानस्यानुपलम्भावयञ्जनावग्रहोऽर्थेन्द्रियसन्निकर्षरूप एव स्यात्स च कथं ज्ञानरूपस्य मतिज्ञानविशेषावग्रहस्य विशेषो भवेदित्याशङ्कते।
पृ. ३. पं. २८ अथेति-अयम्-व्यजनावग्रहः, अबधिरादिश्रोत्रशब्दादिसम्बन्धस्य व्यजनावग्रहत्वपक्षे तस्यैव तदज्ञानत्वसाधने दृष्टान्तता न युक्तेत्यत आह।
पृ. ४. पं. १ बधिरादीनामिति-बधिरादीनां श्रोत्रेन्द्रियादिलक्षणोपकरणेन्द्रियशब्दादिस्वरूपार्थसभिकर्षकाले किमपि ज्ञानं नानुभूयते, अननुभूयमानत्वाच्च तनास्तीति न तत्र ब्यञ्जनावग्रह इष्यते । उत्तरकालेऽावग्रहाभावेन तत्कल्पनासम्भवात् , तथा प्रकृतेऽवधिरानां श्रोत्रादीन्द्रियशब्दादिविषयसन्निकर्षकाले, न किमपि ज्ञानमनुभूयते । अननुभूयमानत्वात्तदपि नास्ति, यश्च तदानीमस्तीन्द्रियार्थसन्निकर्षः सोऽज्ञानत्वादेव व्यजनावग्रहो न भवितुमर्हतीति शङ्कितुरभिप्रायः। यद्यपि तदानीं ज्ञानन्नोपलभ्यते तथाप्यर्थावग्रहाद्युत्पादनार्थमिन्द्रियार्थसन्निकर्ष उपादीयते, तदभावे श्रोत्रादिजन्यार्थावग्रहादेरेवाभावादतो ज्ञानोपादानत्वाज्ज्ञानार्थमुपादीयमानत्वादिन्द्रियार्थसनिकर्षे ज्ञानत्वमुपचर्यते । बधिरादीनाश्च नोत्तरकालं ज्ञानमुत्पद्यत इति तत्र न ज्ञानत्वोपचार इति उपचरितज्ञानत्वम्वभावोऽज्ञानात्मापीन्द्रियार्थसन्निकर्षो व्यञ्जनावग्रह इति समाधत्ते ।
पृ. ४. पं. २. ज्ञानोपादानत्वेनेति-ज्ञानार्थमुपादानं यस्य तज्ज्ञानोपादानं तत्त्वेन ज्ञानार्थमुपादीयमानत्वेन ज्ञाननिमित्तत्वेनेति यावत् , तेनाज्ञानस्य ज्ञानोपादानत्वाभावेऽपि न क्षतिः।
पृ. ४. पं. २. तत्र-इन्द्रियार्थसन्निकर्षे, ननु यापचरितज्ञानत्वेऽपि व्यञ्जनावग्रहत्वं तदनिमित्तान्तरस्यापि तवं भवेत्, न वाऽज्ञानस्य ज्ञानत्वमुपचर्य ज्ञानविशेषभेदमध्ये परिगणनं परीक्षाक्षेत्रमित्यत आह ।
पृ. ४. पं. ३ अन्त इति-इन्द्रियार्थोभयसम्बन्धानन्तरमित्यर्थः ।