________________
। जनतर्कभाषा। दिशन्देन रसगन्धस्पर्शानां ग्रहमं न तु चक्षुर्मनोविषयस्य रूपादेग्रहणं तयोरणाप्यकारित्वेन व्यञ्जनावग्रहाभावात् , शब्दादिरूपेण परिणतानि द्रव्याणि भाषाव मणादीनि तेषां निकुरुम्बस् अन्यतमम् ; निकुरुम्बशब्दस्य समुदायवाचकत्वेऽपि तत्समदायस्य न कस्यचिदिन्द्रियस्य विषयत्वमिति लक्षणाऽऽश्रीयते, अथवैकैकस्यापि समुदायरूपत्वमनेकप्रचितत्वेन सुसङ्गतमेवेति लक्षणानाश्रयणीयेति ।
पृ. ३. पं. २७. तदुभयसम्बन्धश्च-इन्द्रियार्थोभयसम्बन्धश्च, चकाराम द्यपि व्यञ्जनं सम्बध्यते, अर्थस्य प्रकटीकरणे इन्द्रियार्थसम्बन्धस्यापि कारणत्वेनासाधारणकारणत्वलक्षणकरणत्वस्य तत्रापि भावतः करणव्युत्पत्या व्यञ्जनपदस्य तत्रापि प्रवृत्तिसम्भवात् तथापि व्यञ्जनपदेनैव तदुभयसम्बन्धस्यापि ग्रहणेऽक्ग्रहपदेन ततोऽन्यदेव ज्ञानं वक्तव्यं स्यादिति । अज्ञानरूपस्येन्द्रियार्थसम्बन्धस्य व्यञ्जनावग्रहस्याप्राप्त्या “अथाज्ञानमयम्" इत्युत्तरशङ्कानुत्थानं स्यादतो व्यजनावग्रह इत्यत्र शेषो बोध्यः। तथा च तदुभयसम्बन्धः पुनर्व्यजनावग्रहो भवतीत्यर्थः । करणव्युत्पत्या व्यञ्जनपदेनेन्द्रियस्य कर्मव्युत्पत्त्याऽर्थस्यावबोघेऽपि व्यअनावग्रहशन्देन कथं तदुभयसम्बन्धलाभ इत्यपेक्षायामाह ।
पृ ३. पं. २७ तत इति-व्यञ्जनावग्रहशब्देन इन्द्रियार्थोभयसम्बन्धस्य विवक्षितत्वत इत्यर्थः।
पृ. ३. पं. २७ व्यञ्जनेन-इन्द्रियेण । पृ. ३. पं. २७ व्यञ्जनस्य-शब्दाद्यर्थस्य । - पृ. ३. पं. २७ अवग्रहः-सम्बन्धः, अथवा इन्द्रियार्थसम्बन्धोऽपि चकाराद्वयञ्जनतयैव परिगृह्यते । शेषश्च नाद्रियते । इत्थं सति व्यञ्जनावग्रहपदेन ज्ञानविशेषस्य कथं लाभ इत्यपेक्षायामाह ।
पृ. ३. पं. २७ तत इति-इन्द्रियार्थतदुभयसम्बन्धानां व्यञ्जनत्वत इत्यर्थः। पृ. ३. पं. २७ व्यञ्जनेन-इन्द्रियेण इन्द्रियार्थसम्बन्धेन च ।
पृ. ३. पं. २७ व्यञ्जनस्य-अर्थस्य, पूर्व सहार्थे तृतीया, इदानी करणे, तथा च पूर्व प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धार्था षष्ठी, इदानीं विषयविषयिभाषलक्षणसम्बन्धाथो सा।