________________
१. प्रमाणपरिच्छेदः । तदेव चेहादितोऽवग्रहे विशेष इत्यभिसन्धानेनावग्रहं निर्वक्ति ।
पृ. ३. पं. २२. अवकृष्ट इति- यद्यपि सामान्यमात्रावगाहित्वलक्षणापकृष्टत्वमप्यवकृष्टत्वं वक्तुं शक्यते, तथापि तस्य सामान्येतरानवगाहित्वे सति सामान्यावगाहित्वरूपतया तत्र सत्यन्तमात्रस्य व्यजनावग्रहस्य ज्ञानोपादानत्वेनोपचरितज्ञानत्वपक्षेऽपि तत्र सम्भवेन लाघवात्तस्यैवापकृष्टत्वरूपत्वमत्र बोध्यम्। व्यजनावग्रहार्थावग्रहभेदेन तस्य द्वैविध्यं प्रकटयति ।
पृ. ३. पं. २३. स द्विविध इति-सः अवग्रहः, व्यञ्जनावग्रहपदेन किमुच्यत इत्यपेक्षायां योगलभ्य एवार्थोऽस्य विवक्षितः, योगेन च उपकरणेन्द्रियतद्विषययोस्सम्बन्धोऽर्थावग्रहादव्यवहितपूर्वकालीनः व्यञ्जनावग्रहशब्देन प्रतिपाद्यत इति स एव व्यञ्जनावग्रह इत्याह ।
पृ. ३. पं. २४ अर्थः-इति शब्दादिपरिणतद्रव्यनिकुरुम्बलक्षणो विषयः।
पृ. ३. पं. २४. अनेन-अन्तनिवृत्तीन्द्रियाणां शक्तिविशेषलक्षणेनोपकरणेन्द्रियेण ।
पृ. ३. पं. २४. प्रकटीक्रियते-स्पष्टं ज्ञायते । पृ. ३. पं. २४. इति-एवं स्वरूपव्युत्पत्या ।
पृ. ३. पं २४. व्यञ्जनम्-व्यञ्जनपदप्रतिपाद्यम् , अस्योपकरणेन्द्रियमित्यनेनान्वयः, शब्दादिविषयपरिच्छेदहेतुशक्तिविशेषलक्षणमित्येतदुपकरणेन्द्रियस्वरूपावगतये शक्तिनिराश्रया न सम्भवतीति तदाश्रयावगतये ।
पृ. ३. पं. २५. अन्तर्निवृत्तीन्द्रियाणामिति-एतत्स्वरूपपरिचयायोक्तं ।
पृ. ३. पं. २४. कदम्बपुष्पगोलकादिरूपाणामिति-व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति करणव्युत्पत्या व्यञ्जनमुपकरणेन्द्रियम् , व्यज्यते प्रकटीक्रियत इति कर्मव्युत्पत्त्या व्यञ्जनमर्थोऽपीत्याशयेनाह ।
पृ. ३. पं. २६. शब्दादिपरिणतद्रव्यनिकुरुम्यमिति-शब्दादीत्या