________________
जैनतकभाषा शब्दादिस्वरूपावग्रहणं, शब्दादिस्वरूपस्यैवेहापायधारणाः, ते च श्रुताननुसारित्वान्मतिज्ञानविशेषा एवेति । तदनन्तरन्तु यत्तत्तत्पदार्थसङ्केतानुस्मरणपुरस्सरं पदार्थवाक्यार्थमहावाक्याथैदम्पर्यायार्थपरिज्ञानं . तत्सर्व श्रुतानुसारित्वाद्भवति श्रुतमित्याह ।
पृ. ३. पं. २०. यस्तु इति-तत्र अङ्गोपाङ्गादौ, तदयमत्र निष्कर्षः । साभिलापं सच्छृतानुसार्येव यज्ज्ञानं तत् श्रुतज्ञानम् । यच्चभ्यासपाटवादिवशाच्छ्रतानुमरणमन्तरेणापीहादिकं सामिलापं तच्छ्रताननुमारित्वान्मतिज्ञानम् , यच्चावग्रहज्ञानं साभिलापमपि न भवति तदपि मतिज्ञानम् । तदुभयमिन्द्रियजमनि. न्द्रियजं सांव्यवहारिकप्रत्यक्षमिति । ननु सिद्धान्ते ज्ञानं पञ्चविधमाम्नातं-मतिज्ञानं, श्रुतज्ञानम् , अवधिज्ञानं, मनःपर्यवज्ञानं, केवलज्ञानश्चेति । अज्ञानमपि त्रिधा-मत्यज्ञानं, श्रुतज्ञानं, विभङ्गज्ञानमिति । मतिविपर्ययो मत्यज्ञानम् , श्रुतविपर्ययः श्रुताज्ञानम् अवधिविपर्ययो विभङ्गज्ञानम्-इति एतानि त्रीणि मिथ्यादृष्टेर्भवन्ति । एवञ्च ज्ञानमात्रस्य मत्यादिपञ्चस्वेवान्तावो वाच्य इति वस्तुस्थिती प्रत्यक्षस्य यस्सांव्यवहारिक भेदः तत्र मतिज्ञानश्रुतज्ञानयोः समावेशः, यश्च प्रत्यक्षस्य पारमार्थिकभेदः तत्रावधिमनःपर्यवकेवलज्ञानानां समावेशः । एवञ्च प्रमाणस्य यः प्रथमो भेदः प्रत्यक्षात्मा तत्रैव ज्ञानाशेषभेदादस्य परिसमाप्तिरिति प्रमाणस्य द्वितीयभेदः परोक्षाख्यः, पञ्चविधज्ञानस्वरूपातिक्रान्तोऽलीकतामेवाकलयतीति चेत् मतिज्ञानस्य श्रुतज्ञानस्य बहवो विशेषास्स्वस्बावरणक्षयोपशमविशेषप्रभवा भवन्ति, तत्र ये इन्द्रियानिन्द्रियलक्षणसहकारिविशेषसहकृतस्त्रावरणक्षयविशेषसमुत्थास्ते परोक्षस्वभावा अपि सांव्यवहारिकप्रत्यक्षव्यपदेशमासादयन्तः प्रत्यक्षस्य प्रथमभेदेऽन्तर्भवन्ति, तत्रान्तर्भूतश्च मतिज्ञानविशेषोऽवग्रहेहापायधारणाभेदाचातुर्विध्यमञ्चति, एवं श्रुतविशेषोऽपि लब्ध्यक्षरादिरूप इन्द्रियानिन्द्रियनिमित्तस्तत्रान्तर्भवति । अन्ये च स्मरणादयःश्रुताननुसारिणो मतिज्ञानविकल्पाः श्रुतानुसारिणश्च श्रुतज्ञानविकल्पाःसांव्यवहारिकप्रत्यक्षव्यपदेशानहर्हाः, ते परोक्षप्रमाणतामेवात्मनि भजन्ते इति प्रमाणस्य द्वितीयभेदः परोक्षाख्यो नानुपपन्न इति बोध्यम् । इन्द्रियजानिन्द्रियजभेदेन द्विविधं यन्मतिज्ञानं प्राक् प्रस्तुतं नस्यावग्रहादिभेदेन चातुर्विध्यमुपदर्शयति । . पृ. ३. पं. २२. मतिज्ञानमिति-विशेषानवगाहित्वमेव ज्ञाने अपकृष्टत्वं,