________________
१. प्रमाणपरिच्छेदः । स्सरान्तःशब्दोल्लेखान्वितार्थावगाहित्वमिति न तत्र श्रुतलक्षणस्यातिव्यासिन वा तद्विरहितत्वलक्षणमतिलक्षणस्याव्याप्तिरपि; अङ्गानङ्गप्रविष्टादिश्रुतभेदेषु तु पूर्वशब्दाद्यवग्रहणकालेऽवग्रहादयो जायमानाःश्रुताननुसारित्वान्मतिज्ञानविशेषा एव, यस्तु तेषां श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानमेव । इत्थश्च मतिविशेषेष्वीहादिषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वाभावानोक्तमतिश्रुतलक्षणयोस्सङ्कीर्णताऽपीति समाधत्ते ।
पृ. ३. पं. १६. न; श्रुतनिश्रितानामप्यवग्रहादीनां सङ्केतकाल इति-सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य शदार्थयोर्वाच्यवाचकभावेन प्रकारविशेष्यभावेनावबोधनसमये ।।
पृ. ३. पं. १७. व्यवहारकाल इति-एतच्छन्दवाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवंरूपसङ्केतानुसरणस्यामुकस्मिन्ग्रन्थे एतदित्थमभिहितमित्येवंरूपश्रुतग्रन्थानुसरणस्य चाभावेऽपि “घटमानय” इति वाक्यादितोऽभ्यासपाटवादिवशाद् घटादिपदोल्लिखितघटाद्यर्थविषयकावबोधलक्षणघटाद्यानयनादिविषयकप्रवृत्याद्यात्मकव्यवहारोन्मुखावबोधसमय इत्यर्थः । श्रुतनिश्रितानामप्यवग्रहादीनां व्यवहारकाले कथं श्रुताननुसारित्वं येन तेषां मतिज्ञानत्वमभ्युपगन्तुमुचितमित्यपेक्षायामाह।
पृ. ३. पं. १७. अभ्यासपाटववशेनेति-अनभ्यासदशायामयमर्थ एतच्छब्दस्य वाच्य इति तावन्नावधारयति यावदस्य शब्दस्यामिन्नर्थे सङ्केतेऽमकेन पुंसा कृतेऽयमर्थोऽस्य शब्दस्य वाच्य एतत्पदमस्यार्थस्य वाचकमित्येवं न स्मरति, ततश्चानभ्यासदशावन्न व्यवहारकालेऽपि सङ्केतानुसरणस्यावश्यकत्वं तदानीं चाच्यवाचकभावसंयोजनलब्धार्थावगाहनविशेषस्वरूपाणामवग्रहादीनां श्रुतानुसारिणां श्रुतत्वेऽपि अभ्यासदशायां शब्दश्रवणतस्तद्वाच्यवाचकभावस्य झटित्युबुद्धसंस्कारवशात्स्मरणे तत्तब्छन्दवाच्यार्थावग्रहादेरुक्तसङ्केतानुसरणमन्तरेणापि भावाच्छब्दाश्रवणेप्यर्थस्येन्द्रियादिसाम्मुख्यादिलक्षणेन्द्रियसनिकृष्टत्वे तद्वाचकशब्दस्योबुद्धसंस्कारतः स्मरणे तत्संसृष्टार्थावग्रहादेश्च भावात्तस्य मतिज्ञानत्वमेवेति भावः।
पृ. ३. पं. १९. अङ्गोपाङ्गादाविति-अङ्गोपाङ्गादिश्रुतविशेषे तु पूर्व