________________
६४
- जैनतर्कभाषा। सामानाधिकरण्येन वाच्यताबोधकं वाक्यम् । यथा कोकिल पिकपदवाच्य इति, अतिदेशस्तु प्रवृत्तिनिमित्तोपलक्षकधर्मसामानाधिकरण्येन वाच्यताबोधकं वाक्यं, यथा गोसदृशो गवयपदवाच्य इति । श्रुतग्रन्थं तत्तच्छब्दस्य तत्तदर्थवाचकत्वादिप्रतिपादकमागमम् , तदनुसरण च यथोपदेशः यथा वा श्रुतग्रन्थः येन रूपेणार्थ येन रूपेण शब्दस्य वाच्यवाचकभावमवबोधयति तथैव प्रमाता पुरुषः शब्दार्थों वाच्यवाचकभावेन संयोजयति । अन्यथासंयोजने तदनुसरणं न भवेदिति बोध्यम्। तथा च चक्षुरादिना वाच्यवाचकभावसंयोजनेन घटो घटम् इत्याद्यन्तशब्दोल्लेखान्वितघटादिज्ञानं तदिन्द्रियजश्रुतं, मनसा च तथाविधं ज्ञानमनिन्द्रियजश्रुतं, यचोक्तदिशा वाच्यवाचकभावसंयोजनमन्तरेणैव घटाद्यर्थज्ञानमिन्द्रियेण तच्छ्रताननुसारित्वादिन्द्रियजमतिज्ञानम् , ईदृशमेव च मनसा जातमनिन्द्रियजमतिज्ञानमिति भावः । ननूक्तरीत्या श्रुतानुसारित्वनिर्वचने शब्दोल्लेखसहितं श्रुतज्ञानम् , शब्दोल्लेखविनिर्मुक्तं मतिज्ञानमिति प्राप्तं, तथा च ज्ञानोपादानत्वेन ज्ञानत्वेनोपचरिते अव्यक्तज्ञानस्वरूपत्वाद्वास्तविकज्ञानस्वरूपे वा व्यञ्जनावग्रहे स्वरूपनामादिकल्पनारहितसामान्यग्रहणरूपेऽर्थावग्रहे च शब्दोल्लेखविनिर्मुक्तत्वान्मतिज्ञानस्वस्य सम्भवेऽपि मतिज्ञानविशेषतया प्रसिद्ध ईहापायादौ शरोल्लेखसहितस्यैव भावेन तद्विनिमुक्तत्वस्याभावान्मतिज्ञानलक्षणस्य तस्य तत्राव्याप्तिः । श्रुतलक्षणस्य शब्दोल्लेखसहितत्वस्य तु तत्र भावात्तस्यातिव्याप्तिरपि । एवमङ्गानङ्गप्रविष्टेषु श्रुतभेदेष्ववग्रहादिरूपताया अपि भावान्मतिज्ञानलक्षणस्यातिव्याप्तिरित्याशङ्कते । __ पृ. ३. पं. १४. नन्वेवमिति-एवं शब्दोल्लेखसहितत्वस्य श्रुतलक्षणत्वे शब्दोल्लेखरहितत्वस्य च मतिलक्षणत्वे आश्रीयमाणे ।
पृ. ३. पं. १५. तेषाम्-ईहादीनाम् , श्रुतानुसारिण एव साभिलापकज्ञानस्य श्रुतत्वेनेहादीनां श्रुताननुसारिणां साभिलापानामपि न श्रुतत्वम् । सङ्केतकाले एतच्छब्दवाच्यतया गुरुणाऽऽप्तेन केनचिद्वोपदिष्टमेतदिति ग्रहणे सति तदानीमवग्रहादीनां श्रुतानुसारित्वेन सिद्धान्तोक्तत्वेऽपि व्यवहारकाले एतच्छब्दवाच्यत्वेनैतन्मया पूर्वमवगतमित्येवंरूपसङ्केताननुसरणेऽपि अमुकस्मिन्ग्रन्थे एतदित्थमभिहितमित्येवंरूपश्रुतग्रन्थाननुसरणेऽप्यभ्यासपाटववशाद्विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तित ईहापायधारणानां साभिलापानां सम्भवेन न तेषां व्यवहारकाले सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावसंयोजनरपु