________________
१. प्रमाणपरिच्छेदः ।
६३
पृ. ३. पं. १०. मतीति- इन्द्रियजज्ञानमपि मतिरूपं श्रुतरूपश्चेति द्विविधमित्यर्थः, इन्द्रियजमतिज्ञानमनिन्द्रियनमतिज्ञानञ्च लक्षयति ।
पृ. ३. पं. १०. तत्रेति – इन्द्रियजानिन्द्रियजमतिज्ञानश्रुतज्ञानयोर्मध्य इत्यर्थः ।
पृ. ३. पं. १०. इन्द्रियेति- इन्द्रियनिमित्तकं श्रुताननुसारिज्ञानमिन्द्रिय जमतिज्ञानम्, मनोनिमित्तकं श्रुताननुसारिज्ञानमनिन्द्रियजमतिज्ञानमित्यर्थः ।
पृ. ३. पं. १९. श्रुतानुसारि चेति- इन्द्रियमनोनिमित्तमित्यस्यात्रापि सम्बन्धः, तथा चेन्द्रियनिमित्तकं श्रुतानुसारिज्ञानमिन्द्रियजश्रुतज्ञानम्, मनोनिमित्तकं श्रुतानुसारिज्ञानमनिन्द्रियजश्रुतज्ञानमित्यर्थः श्रुतानुसारित्वस्वरूपावगतौ श्रुतानुसारितत्वरहितत्वं श्रुताननुसारित्वं सुखेन प्रतिपत्तुं शक्यत इत्यतः श्रुतानुसारित्वस्वरूपमेवोपदर्शयति ।
पृ. ३. पं. १२. श्रुतानुसारित्वं चेति श्रूयत इति श्रुतं शब्दः, स च शाब्दबोधलक्षणभावश्रुत कारणत्वाद्द्रव्यश्रुतं स च सङ्केतविषयपरोपदेशरूपो घटपदवाच्यो घट इत्यादि द्वादशाङ्गयादिग्रन्थरूपञ्च तयोरन्यतरमाश्रित्य घटो घट इत्याद्यन्तर्जल्पाकारग्राहित्वम्, अर्थात् घटादिशब्दं वाचकत्वेन घटाद्यर्थं वाच्यत्वेन संयोज्य घटो घट इत्यादिरूपान्तः शब्दो लेखसमन्विताकारावगाहित्वं तदेव इन्द्रियनिमित्तज्ञाने अनिन्द्रियनिमित्तज्ञाने श्रुतानुसारित्वमित्याह ।
पृ. ३. पं. १२. सङ्केतेति - अस्मात्पदादयमर्थो बोद्धव्य इति इदम्पदममुमर्थं बोधयत्विति वा इच्छा संङ्केतः, यथा घटपदाद्घटरूपोऽर्थो बोद्धव्य इत्याकारिका घटपदं घटरूपार्थं बोधयत्वित्याकारिका वेच्छा सङ्केतः, स च शब्दार्थयोर्यो वाच्यवाचकभावाभिन्नस्वाभाविकस्सम्बन्धः, यद्वलाच्छन्दोऽर्थं प्रत्याययति तस्य शब्दोत्पत्तिकाले शब्दोत्पादक सामग्रीतोऽर्थोत्पत्तिकालेऽर्थोत्पादकसामग्रीतः कथश्चिच्छब्दार्थोभयाभिन्नस्वभावस्योत्पादन यावच्छब्दार्थकालं भावेऽपि अनभिव्यक्तिदशायां नार्थप्रत्ययोत्पादकत्वमिति तदभिव्यक्तये स्वीक्रियते । सङ्केतेन योविषयः प्रतिपाद्येत स सङ्केतविषयः, सङ्केतविषयश्चासौ परोपदेश आप्तोपदेशव स सङ्केतविषयपरोपदेशस्तम्, अस्यानुसृत्येत्यनेनान्वयः, उपदेशश्च प्रवृत्तिनिमित्त