________________
जेनतर्कभाषा। तु असिद्धानकान्तिकविरुद्धानुमानाभासवत्तत्त्वं भवेदपीत्येवंविधस्य तथेन्द्रियानिन्द्रियजस्य यदि परोक्षत्वन्न भवेत्तदा तत्र सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवोऽपि न सम्भवेत् । प्रत्यक्षेऽवध्यादिनिश्चयस्य सङ्केतस्सरणपूर्वकस्यैव भावादित्येवंरूपस्य च तर्कस्य प्रदर्शनार्थ पञ्चम्यन्तद्वयं बोध्यमिति । वस्तुतःपरोक्षरूपतया व्यवस्थापितं सांव्यवहारिकप्रत्यक्षं विभजते ।
पृ. ३. पं. ७. एतच्चेति-सांव्यवहारिकप्रत्यक्षश्चेत्यर्थः ।
पृ. ३. पं. ७ तत्र-इन्द्रियजानिन्द्रियजयोमध्ये, चक्षुरादीत्यादिपदात् त्वक-घ्राण-रसन-श्रोत्राणामुपग्रहः। तथा च चाक्षुषस्पाशेनघ्राणजरासनश्रावणभेदेन पञ्चविधमिन्द्रियजप्रत्यक्षमित्यर्थः । मनसोऽनिन्द्रियतया राद्धान्तेऽभ्युपगमात्तजन्यं मानसं प्रत्यक्षमनिन्द्रियजमित्याह ।
पृ. ३. पं. ७. अनिन्द्रियजं मनोजन्मेति-मनसोऽनिन्द्रियाजन्म उत्पत्तिर्यस्य ज्ञानस्य तन्मनोजन्मेत्यर्थः । चक्षुरादिजन्यप्रत्यक्षेऽपि मनसःकारणत्वान्मनोजन्यप्रत्यक्षत्वस्यानिन्द्रियजलक्षणस्य तत्रातिव्याप्तिरित्याह ।
पृ. ३. पं. ८. यद्यपीति-चक्षुरादिजन्यज्ञाने यन्मनसः कारणत्वं तन्मानसप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणतारूपन्न, किन्स्विन्द्रियजानिन्द्रियजज्ञानसाधारणसांव्यवहारिकप्रत्यक्षत्वपारमार्थिकपरोक्षत्वादिलक्षणो यदिन्द्रियज. ज्ञानत्वादिव्यापको धर्मस्तद्धर्मावच्छिन्नकार्यतानिरूपितमनस्त्वावच्छिन्नकारणतारूपंतच्च अनिन्द्रियजज्ञानलक्षणे न प्रविष्ट, प्रविष्टन्तु मानसप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितं यदनिन्द्रियविधया मनोनिष्ठकारणत्वं तनिरूपितकार्यत्वन चक्षुरा. दिजन्यज्ञान इति न तवातिव्याप्तिरित्याह ।
पृ. ३. पं. ९. तथापीति-इन्द्रियजज्ञाने साधारणकारणतयामनसो व्यापारसद्भावेऽपीत्यर्थः।
पृ. ३. पं. १०. तत्र-इन्द्रियजज्ञाने इन्द्रियस्यैवेत्येवकारेण मनसो व्यवच्छेदः, इन्द्रियजानिन्द्रियजयोरवान्तरभेदमुपदर्शयति ।
पृ. ३. पं. १०. 'दूयमपीवमिति-इन्द्रियजामिन्द्रियजीभयमपि ज्ञानमित्यर्थः।