________________
१. प्रमाणपरिच्छेदः। निर्गलितोऽर्थः । यत्र व्यवहितात्मव्यापारप्रयोज्यत्वं तत्र परोक्षत्वमेव, यथा दृश्यते धूमरूपलिङ्गज्ञानेन जनितं वह्निरूपलिजिज्ञानम् । तत्र धूमज्ञानेन वसिज्ञाने व्यवहितत्वमात्मव्यापारस्य, तथा इन्द्रियानिन्द्रियजज्ञानेऽपि तद्वयापारेणात्मव्यापारस्य व्यवहितत्वमविशिष्टमतो धूमज्ञानजन्यवह्निज्ञानस्य यथा परोक्षत्वं तथेन्द्रियानिन्द्रियजज्ञानस्याषि परोक्षत्वमेव परमार्थतः प्रतिपत्तव्यमित्याह ।
पृ. ३. पं. २. धूमादिति-यत्संशयविपर्ययानध्यवसायजातीयं तत्परोक्षम् , यथाऽनुमानाभासः इन्द्रियानिन्द्रियजज्ञानमपि संशयादिजातीयमिति तदपि परोक्षम् । एवं यत्सङ्केतस्मरणादिपूर्वक निश्चय स्वभावं तत्परोक्षं यथा सदनुमानम् । सङ्केतस्मरणादिपूर्वकनिश्चयस्वभावश्चेन्द्रियानिन्द्रियजज्ञानमिति तत्परोक्षमित्यनुमानाभ्यामिन्द्रियानिन्द्रियजज्ञानस्य परोक्षत्वं सिद्धयतीत्याह ।
पृ. ३. पं. ३. किश्वेति-अत्र यदिन्द्रियमनोनिमित्तं ज्ञानं तत्परोक्षम् , संशयविपर्ययानध्यवसायानां तत्सम्भवात् , इन्द्रि यमनोनिमिता सिद्धानकान्तिकविरुद्धानुमानाभासवदिति प्रथमः प्रयोगः, यदिन्द्रियमनोनिमित्तं तत्परोक्षं निश्चयसम्भवात् धूमादेरन्यायनुमानवदिति द्वितीयः प्रयोगः, इत्येवं प्रयोगरचनाऽन्यत्रोपलभ्यते, तत्र यथा यो धूमवान् स वह्निमानित्युदाहरणवाक्ये धूमस्य हेतुत्वं वह्नः साध्यत्वं प्रतीयते तथा यदिन्द्रियमनोनिमित्तं तत्परोक्षमिति प्रयोगेऽपि इन्द्रिय मनोनिमित्तत्वस्य हेतुत्वं परोक्षत्वस्य साध्यत्वं भवेत् , एवं सति संशयविपर्ययानध्यवसायानां तत्र सम्भवादिति प्रथम प्रयोगे तत्र निश्चयसम्भवादिति द्वितीयप्रयोगे च पञ्चम्यन्तं वाक्यं न हेत्ववथवरूपतया सङ्गतम्भवेत् , किनित्यन्द्रियमनोनिमित्त त्वमस्तु परोक्षत्वं मास्त्विति व्यभिचारशङ्कायां तन्निवर्तकतर्कोपदर्शनार्थमेतत्, परोक्षज्ञाने हि अस्पष्टस्वरूपे बहुतरविशेषानवगाहने एककोटिव्याप्यदर्शनस्य एकप्रकारसाधकस्य प्रकारान्तरबाधकस्य संशयविरोधिनोऽभावात्संशयस्य विपरीतककोटिभासकदोपस्यापि सम्भवे न तबलाद्विपर्ययः स्यायथावदर्थप्रतिभासतोऽनध्यवसायस्याप्यस्ति संम्भवः, प्रत्यक्षे तु पारमार्थिके यथावस्थितार्थावभासके बहुतरविशेपावभासकत्वेन विशदस्वरूपे संशयविरोधिनो विशेषदर्शनस्यावश्यम्भावेन न संशयस्य स्पष्टप्रतिभासत्वादेव दोषासंस्पृष्टत्वेन न विपर्ययस्य तत एव च नानध्यवसायस्य सम्भव इति वस्तुस्थितौ इन्द्रियानिन्द्रियजं ज्ञानं यदि प्रत्यक्षं स्यात्संभवत्संशयादिकं न स्यात् , अवध्यादिवत् , परोक्षत्वे