________________
। जैनतर्कभाषा। पृ. २. पं. २४. प्रवृत्तीत्यादिना-इष्टसाधनघटादिवस्तुविषयकचाक्षुषादिप्रत्यक्षेण अबाधिनघटाद्यानयनादिगोचरप्रवृत्तिलक्षणव्यवहारो जायते, अनिष्टसाधनसर्पादिगोचरचाक्षुषादिप्रत्यक्षेणाबाधितसर्यादिनिकटस्थानगमनादिविषयकनिवत्तिलक्षणव्यवहारो जायते । कदाचिच्चेष्टानिष्टोपेक्षणीयवस्तुविषयकचाक्षुषादिना परप्रतिबोधनाय तत्प्रतिपादकवचनोद्गारलक्षणव्यवहार इतिभेदेनोपादानम् ।
पृ. २. पं. २५. तत्प्रयोजनकम्-निरुक्तसंव्यवहारप्रयोजनकम् , उपेक्षणीयवस्तुविषयकप्रत्यक्षे सति तद्वस्तुविषयिणी भवत्युपेक्षा परं सा न व्यवहार इति तदकथनम् । संव्यवहारप्रयोजनकप्रत्यक्षत्वरूपव्युत्पत्तिनिमित्तस्य सांव्यवहारिकप्रत्यक्षलक्षणत्वेऽपि न कश्चिद्दोषः । यद्यपि कस्यचित्सहकारिणो वैकल्या. केनचिच्चाक्षुषादिज्ञानेन प्रवृत्त्यादिलक्षणः संव्यवहारो न भवति, तथापि तादृशसंव्यवहारानुकूलशक्तिमत्त्वलक्षणतजनकतावच्छेदकशालित्वेन तजननयोग्यत्वमस्त्येवेति न तत्राव्याप्तिः। व्यावहारिकोऽपि घटादिःपारमार्थिको भवत्येवेति सांव्यवहारिकत्वे पारमार्थिकत्वविरोधाभावात्सामान्यधर्मव्याप्यपरस्परविरुद्धनानाधर्मेण धर्मिप्रतिपादनरूपविभागः प्रत्यक्षस्य सांव्यवहारिकत्वपारमार्थिकत्वाभ्यामनुपपन्न इत्यत आह ।
पृ. २. पं. २५. अपारमार्थिकमित्यर्थ इति-तथा च सांव्यवहारिकत्वमपारमार्थिकत्वमेव तच्च पारमार्थिकत्वविरुद्धमिति तद्रपेण विभागो नानुपपन्न इति भावः । यच्चापारमार्थिकं प्रत्यक्षं तद्वस्तुतः परोक्षमेव, परोक्षत्वापरोक्षत्वयोःपरस्परविरुद्धत्वेनैकस्य यत्रापारमार्थिकत्वं स्वासत्त्वनिवन्धनं तत्र द्वितीयस्य स्वसत्वनिबन्धनं पारमार्थिकत्वं स्यादतोऽस्मदादिप्रत्यक्षस्य पारमाथिकपरोक्षत्वमपारमार्थिकप्रत्यक्षत्वप्रयोजकमुपदर्शयति।
पृ. ३. पं. १. तद्वीति-हि यतः, तत् अस्मदादिचाक्षुषादिप्रत्यक्षम् ।
पृ. ३. पं. १. इन्द्रियेति-इन्द्रियानिन्द्रियाभ्यां चक्षुरादिमनोभ्यां व्यवहितो य आत्मव्यापारस्तत्सम्पाद्यत्वात्तत्म्योज्यत्वात् , आत्मा इन्द्रियानिन्द्रिययो:प्रेरणे व्याप्रियते ताभ्याश्चेन्द्रियजन्यं मनोजन्यञ्च ज्ञानं जायते इति परम्परयाऽऽत्मव्यापारजन्यत्वं तत्र न तु साक्षादात्मव्यापारजन्यत्वमलक्षणपारमार्थिकप्रत्यक्षत्वम् । किन्तु व्यवहितात्मव्यापारप्रयोज्यत्वेन परमार्थतः परोक्षत्वमेवेति