________________
१. प्रमाणपरिच्छेदः ।
५९
पृ. २. पं. २१. इत्यदोष इति एतावता स्पष्टं प्रत्यक्षमिति फलितं, ततश्च तद्विपरीतं परोक्षमस्पष्टं ज्ञानमिति प्राप्तमेव । तत्रापि व्युत्पत्तिनिमित्तं -समानाधिकरण्यप्रत्यासच्या प्रवृत्तिनिमित्तस्यास्पष्टत्ववत्त्वस्योपलक्षकमेत्र न तु 'तदेव लक्षणं यतस्तदिन्द्रियातिरिक्तजन्यज्ञानत्वम् । आत्मातिरिक्तकारणजन्यज्ञानत्वं वा भवेत् । प्रथमं मानसप्रत्यक्षेऽवध्यादौ चातिप्रसक्तं, द्वितीयमिन्द्रियजप्रत्यक्षेऽतिप्रसक्तं, तदन्यतरवच्चन्तु गुरुभूतमेव ततः परोक्षपदप्रवृत्तिनिमित्तमस्पष्टतावस्वमेव परोक्षलक्षणं युक्तमित्याशयेन परोक्षपदव्युत्पत्ति निवेदनपुरस्सरं तल्लक्षणमुपदर्शयति ।
पृ. २. पं. २२. अक्षेभ्य इति अत्र अक्षपदेन चक्षुरादीन्द्रियं विवक्षितं तद्वहुत्वाद्बहुवचननिर्देशः ।
पृ. २. पं. २२. अक्षाद्वा - इति- अक्षादात्मनः व्यक्त्याभिन्नत्वेऽपि जात्यैकत्वादेकवचननिर्देशः । स्पष्टत्वं विशदत्वं तद्विपरीतमस्पष्टत्वमविशदत्वम् । तत्रानुमानाद्यतिरेकेण विशेषप्रकाशनं स्पष्टत्वमित्यत्र न कस्यापि विप्रतिपत्तिः । अनुमानादीत्यादिरूपेण तस्य गुरुभूतत्वेऽपि साक्षात्करोमीत्यनुभवसिद्धविषयताविशेषे निरूपकतासम्बन्धेन सकलप्रत्यक्षनियतस्पष्टत्वं तदन्यविषयताविशेष एव परोक्षं वहन्यादिकमस्पष्टमनुभव। मीत्यनुभवसिद्धाऽस्पष्टत्वं निरूपकतासंसर्गेण सकलपरोक्षगतमिति बोध्यम् । प्रथमत उद्दिष्टं सामान्यतोलक्षितं च प्रत्यक्षं विभजते ।
पृ. २. पं. २३ प्रत्यक्षं द्विविधमिति - सांव्यवहारिकं प्रत्यक्षमपारमार्थि“कम् । तथा चापारमार्थिकपारमार्थिकभेदेन प्रत्यक्षं द्विविधमित्यर्थः । संव्यवहारप्रयोजनकत्वात्तत्प्रत्यक्षतया व्यवहियते स्पष्टतया चोपचर्यते न तु तद्वस्तुगत्या प्रत्यक्षमक्षमात्मानम्प्रत्यगतत्वात्साक्षादात्मसम्पाद्यमेव प्रत्यक्षं तदेव च पारमाथिंकं तच्चावध्यादिकमेवेत्याशयवान् सांव्यवहारिकशब्दार्थोपदर्शनेन प्रथम भेदं स्पष्टयति ।
पृ. २. पं. २४. समीचीन इति - अयश्च समित्युपसर्गस्यार्थः । समीचीनत्वं किमित्यपेक्षायामाह ।
पू. २. पं. २४. बाधारहित इति-व्यवहारस्वरूपप्रकटनम् ।