________________
जेमतर्कमाया। __पृ. २. पं. १९ प्रवृत्तिनिमित्तं त्विति-प्रवृत्तिनिमित्तत्वश्वः वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वं, यथा घटपदस्य घटत्वं प्रवृत्तिनिमित्तम् । तत्र घटपदस्य वाच्यत्वमस्ति, घटपदस्य घटत्वविशिष्टघटव्यक्तिवाचकत्वे घटत्ववाचकत्वस्य सद्भावात् । घटपदवाच्यघटव्यक्तिवृत्तित्वमप्यस्ति तथा घटपदजन्य घटोपस्थितौ प्रकारत्वमप्यस्ति । तथा प्रत्यक्षपदस्य स्पष्टत्त्वं प्रवृत्तिनिमित्तम् , अर्थात् शक्यतावच्छेदकम् । तत्र स्पष्टताविशिष्टज्ञानवाचकस्य प्रत्यक्षपदस्य स्पष्टतावाचकत्वस्यापि भावेन तद्वाच्यत्वमपि विद्यते । प्रत्यक्षपदवाच्ये स्पष्टतावति ज्ञाने वृत्तित्वमपि समस्ति । एवञ्च स्पष्टतावत्वमेव प्रत्यक्षलक्षणं, तच्च ।
पृ. २. पं. २०. एकार्थसमधायिना-खाधिकरणवत्तिना अनेन-अक्षाश्रितत्वलक्षणव्युत्पत्तिनिमित्तेन ।
पृ. २. पं. २०. उपलक्षितमिति-ज्ञायमानम् , तथा च अक्षाश्रितत्वेन व्युत्पत्तिनिमित्तेन सामानाधिकरण्यप्रत्यासत्याज्ञायमानं यत्स्पष्टत्वत्वं प्रत्यक्षपदप्रवृत्तिनिमित्तं तदेव प्रत्यक्षलक्षणम् । अक्षाश्रितत्वमिन्द्रियजन्यत्वपर्यवसितं व्युत्पत्तिनिमित्तमेव न प्रवृत्तिनिमित्तं, तस्यैव प्रवृत्तिनिमित्तत्वे चक्षुरादिजन्यज्ञानमेव प्रत्यक्षव्यपदेश्यं स्यात् । न मानसादि, अन्यत्रापि च व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वन्नाभ्युपेयत एव, यथा गच्छतीति गौरितिव्युत्पत्त्या गमनक्रियाकर्तृव्यं गोपदव्युत्पत्तिनिमित्तमपि न गोपदप्रवृत्तिनिमित्तम् । गच्छत्यागच्छति च गवि गोशब्दप्रवृत्तेर्दर्शनेन समानाकारपरिणामलक्षणस्य गोत्वरूपतिर्यक्सामान्यस्यैव सर्वदा गवि वर्तमानस्य गोशब्दप्रवृत्तिनिमित्तत्वादिति भावः । सकलप्रत्यक्षसाधारणं स्पष्टतास्वरूपं प्रकटयति ।
पृ. २. पं. २१. स्पष्टता चेति-अनुमानादिभ्य इत्यत्रादिपदादागमादीनां परोक्षप्रकाराणामुपग्रहः। ___पृ. २. पं. २१. अतिरेकेण-आधिक्येन प्रतिनियतवर्णसंस्थानपरिमाणादिमत्त्वेन, प्रत्यक्षे यथा विषयस्य नियतवर्णसंस्थानादिकमवभासते तथा नानुमानादौ विशेषावभासोऽस्तीति निरुक्तस्पष्टत्ववत्तं सर्वत्र प्रत्यक्षेः वर्तत इति नाव्याप्त्यसम्भवौ अनुमानादावलक्ष्ये च नास्तीत्यतिव्याप्तिरपि नेत्याह ।