________________
१. प्रमाणपरिच्छेदः । त्वव्यापकत्वाज्ज्ञानस्य चात्मना समं भेदाभेदस्य सम्बन्धत्वेनात्मनः कथश्चिदभिन्नत्वमिति ज्ञानात्मना सर्वार्थव्याप्तेर्घटनादगत्यात्माऽक्षः ।
पृ. २. पं. १७ तं-जीवं तम्प्रतिगतत्वञ्च तन्मात्राधीनतयोत्पत्तिमत्त्वमेव, न ह्येकं जनकमिति नियमादात्ममात्राधीनतयोत्पत्ति वध्यादीनामपि, परमात्मातिरिक्तं चक्षुरादिकमवध्यादिज्ञानजनने आत्मनापेक्षते तज्ज्ञानावरणीयकर्मक्षयोपशमादिकन्त्वपेक्षत एवेत्येतावतैवात्ममात्राधीनत्वमत्र विवक्षितमिति बोध्यम् । अत्र इन्द्रियं प्रतिगतस्येन्द्रियजन्यत्वरूपस्य प्रत्यक्षपदव्युत्पत्तिनिमित्तस्य प्रत्यक्षलक्षणत्वे इन्द्रियाजन्येऽवध्यादिप्रत्यक्षेऽव्याप्तिः । आत्ममात्रम्प्रतिगतत्वस्य आत्ममात्राधीनतयोत्पत्तिमज्ज्ञानत्वरूपस्य तस्य प्रत्यक्षलक्षणत्वे इन्द्रियमपेक्ष्यात्मजन्ये मत्यादिप्रत्यक्षेऽव्याप्तिरित्याशक्य प्रतिक्षिपति ।
पृ. २. पं. १८ न चेति-अस्य वाच्यमित्यनेनान्वयः ।
पृ. २. पं. १८ एवम्-अनन्तरोपदर्शितस्य व्युत्पत्तिनिमित्तस्य प्रत्यक्षलक्षणतयाऽऽश्रयणे ।
पृ. २. पं. १८ अवध्यादाविति-आदिपदान्मनःपर्यवकेवलयोरुपग्रहः । तेषु इन्द्रियाश्रितत्वलक्षणव्युत्पत्तिनिमित्तस्याभावात्प्रत्यक्षव्यपदेशो न भवेदित्यर्थः।
पृ. २. पं. १८ मत्यादाविति-आदिपदात् श्रुतज्ञानस्य परिग्रहः, तयोरात्ममात्राधीनज्ञानत्वस्याभावात्तन्निमित्तकस्य प्रत्यक्षव्यपदेशस्याभावः स्यादित्यर्थः । यद्यपीन्द्रियमनिन्द्रियस्याप्युपलक्षकं तथा चेन्द्रियानिन्द्रियान्यतरजन्यत्वात्ममात्राश्रितत्वान्यतरवत्वस्य प्रत्यक्षलक्षणत्वे न कुत्रापि व्याप्तिस्तथापि स्पष्टं त्वलघुभूतं प्रत्यक्षपदप्रवृत्तिनिमित्तमेव प्रत्यक्षलक्षणं तत एव च मतिज्ञानादौ सर्वत्र प्रत्यक्षव्यपदेशोपपत्तिरित्याशयेन निषेधहेतुमाह ।
पृ. २. पं. १९ यत् इति-एतत्-अक्षाश्रितत्वम् ।
पृ. २. पं १९ व्युत्पत्तिनिमित्तमेवैतत्-प्रत्यक्षव्युत्पत्तिनिमित्तम् , न तु प्रत्यक्षपदप्रवृत्तिनिमित्तम् , तदर्थाधिगतये एवकारोपादानम् , किं तहिं प्रत्यक्षपदप्रवृत्तिनिमित्तमित्याकाङक्षायामाह ।