________________
। जैनतर्कभाषा। खादेर्यथा स्वसंवेदितत्वं न तथेति व्यतिरेकेण दृष्टान्तः । तस्मात्पाभाकरमतप्रवेशभयात् ज्ञानेन घटानामीति करणोल्लेखानुपपत्तिभयाञ्च न लब्धीन्द्रियं प्रमाणं किन्तूपयोगेन्द्रियमेव स्वपरव्यवसायिज्ञानस्वरूपं प्रमाणम् । तस्य प्रमास्वरूपाद: भेदेऽपि तत्तत्पूर्वक्षणवृत्तित्वविशिष्टज्ञानस्वरूपत्वेन करणत्वं तत्तदुत्तरक्षणवृत्तित्वविशिष्टत्वस्वरूपेण फलत्वं नानुपपन्नमिति भावः । [प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमाने द्वे प्रमाणे इति बौद्धावेशेषिकाच, प्रत्यक्षानुमानशब्दाः प्रमाणानीति साङख्याः, उपमानेन सह तानि चत्वारिप्रमाणानीति गौतमीयाः, अर्थापत्या सह तानि पञ्चप्रमाणानीति प्राभाकराः, अनुपलब्ध्या सह तानि पट् प्रमाणानीति भट्टवेदान्तिनौ एवं सम्भवैति ह्यचेष्टादीन्यपि प्रमाणानि वादिनो मन्यन्ते ततः प्रमाणे सङख्यायां बह्वो विप्रतिपतयस्तद्वयपोहाय प्रतिनियतसकुख्याप्रतिपत्तिफलकं प्रमाणविभागमादर्शयति ।
पृ. २. पं. १५ तदिति-उक्तलक्षणलक्षितं प्रमाणमित्यर्थः ।
पृ. २. पं. १५ द्विभेदमिति-द्वौ भेदौ विशेषौ यस्य तद् द्विभेदम् स्वसा. क्षावाप्यसामान्यद्वयप्रमाणत्ववदिति, यावत् , तेन चाक्षुषादिभेदेन प्रत्यक्षज्ञानव्यक्तीनां स्मरण-प्रत्यभिज्ञान-तर्का-नुमान-शाब्दभेदेन परोक्षव्य कीनां बहुत्वसङख्यायोगित्वेऽपि न क्षतिः । व्युत्पत्तिनिमित्ताश्रयणेन प्रत्यक्षशब्दार्थन्तावदाह । ___ पृ. २. पं. १५ अक्षमिति-प्रतिगतमित्यस्य कार्यत्वेनाश्रितमित्यर्थकरणेन इन्द्रियत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयज्ञानं प्रत्यक्षमिति लभ्यते । इन्द्रियत्वञ्च इन्द्रस्यात्मनो लिङ्गत्वं, नैयायिकेन तु शब्देतरोद्भूतविशेषगुणानामाश्रयत्वे सति ज्ञानकारणमनरसंयोगाश्रयत्वमिन्द्रियत्वं मनस्साधारणमुक्तं तच्च सिद्धान्ते मनसोनिन्द्रियत्वेनतद्गतत्वादतिव्याप्त्योपेक्ष्यम् । उक्तव्युत्पत्तिनिमित्तञ्च पारमार्थिकप्रत्यक्षेऽवध्यादौ नास्तीति । तद्गतं प्रत्यक्षपदव्युत्पत्तिनिमित्तमुपदर्शयितुमाह ।
पृ. २. पं. १६ “अथवाऽश्नुते ज्ञानात्मना” इति-सर्वेषामेवात्मनां ज्ञानं जगद्विषयकमेव, स्वावरणकर्मप्रतिबन्धाच स्वविषयीभूतमप्यर्थं न प्रकाशयति । यद्विषयावच्छेदेनावरणस्य क्षयोपशमादिस्तं विषयं प्रकाशयत्प्रतिनियतविषयकमुच्यते, वस्तुस्थित्या सर्वविषयकमपीति विषयतासम्बन्धेन ज्ञानस्य वस्तु