________________
१. प्रमाणपरिच्छेदः
पृ. २. पं. ७ उपयोगात्मनेति - उपयोगेन्द्रियात्मकेने त्यर्थः
पृ. २. पं. ७. लब्धेः-अर्थग्रहणशक्तिलक्षणलब्धीन्द्रियस्य यथा च वह्नयादौ दाहादिक्रियानुकूलाः शक्तयोऽतीन्द्रियत्वेनाप्रत्यक्षास्तथेयमप्यर्थग्रहणानुकूलोपयोगगता शक्तिरिति परोक्षस्वभावा सा प्रमाणं प्रत्यक्षस्वभावं फलज्ञानस्य च प्रमेयवाभ्युपगमे भवतः करणस्य परोक्षत्वं फलज्ञानस्य च प्रत्यक्षत्वमभ्युपगच्छतः प्रभाकरस्य मते प्रवेशोऽपि प्रसज्यत इत्याह ।
पृ. २. पं. ८. शक्तीनामिति ननु सर्वस्यानेकान्तत्वमभ्युपगच्छतां जैनानामते किञ्चिदपि वस्तु नैकान्तेन प्रत्यक्षम प्रत्यक्षं वा किन्तु कथञ्चित् एवञ्चार्थग्रहणशक्तिरपि पर्यायतः परोक्षाऽपि द्रव्यार्थतः प्रत्यक्षा | स्वपरपरिच्छितिलक्षणफलात्कथञ्चिदभिन्नस्यात्मनः प्रत्यक्षत्वेन तदभिन्नाया अर्थग्रहणशक्तेरपि तदात्मना प्रत्यक्षत्वात् एतदभिप्रायकमेव द्रव्यार्थतो हि ज्ञानमस्मदादेः प्रत्यक्षं प्रतिक्षणपरिणामशक्त्यादिपर्यायार्थतस्तु न प्रत्यक्षमिति तद्वचनम् । एवञ्च प्राभाकरमत प्रवेश करणज्ञानस्य सर्वथा परोक्षत्वस्य फलज्ञानस्य सर्वथा प्रत्यक्षत्वस्याभ्युपगमादित्याशङ्कते ।
1
पृ. २. पं. ९. अथेति-स्वाश्रये - इति - ज्ञानशक्त्याश्रय इत्यर्थः, यद्धि साक्षात्संवेदनेन स्वात्मना संवेद्यते तदेव स्वसंविदितं भवति यथा सुखादिः । ग्रहणशक्तिस्तु नैवं संवेदनविषयात्मकद्रव्याभेदात्तथेति स्वसंविदिता सा न स्यात् । एवं ज्ञानात्मनाकरणं सा संविदिता तु स्वाश्रयात्मस्वरूपेणेति घटाद्यर्थज्ञानफलाद्यवगाहिप्रत्यक्षे स्वस्वरूपेण करणतयोल्लिखिता न भवेदिति । तद्रूपेण तस्या अप्रत्यक्षत्वात् । न हि यद्द्रव्यार्थतः प्रत्यक्षं, न पर्यायार्थतस्तस्य प्रत्यक्षप्रतीतौ स्वस्वरूपेण पर्यायात्मनोल्लेखो भवति । तथा तदुल्लेखाभ्युपगमे मृदात्मनः कलशस्य प्रत्यक्षकाले कलशाभिन्नमृद्भाने तदात्मनाकुशूल कपालादीनां प्रत्यक्षत्वेन कलशप्रत्यक्षे कुशूल - कपालादीनामपि कुशूल - कपालादिपर्यायात्मनोल्लेखः प्रसज्येतेति प्रतिक्षिपति ।
पृ. २. पं. ११ न; द्रव्यद्वारा प्रत्यक्षत्वेनेति - प्रत्यक्षविषयद्रव्याभिन्नत्वप्रयुक्त प्रत्यक्षत्वोपचारेण ।
प्र. २ पं. ११ सुखादिवदिति - प्रत्यक्षज्ञानस्वरूप सुखादिपर्याय स्वरूपसु