________________
जैनतर्कभाषा ।
त्वविरोधः । यदि पुनरप्रत्यक्षा ज्ञानशक्तिस्तदा तस्याः करणज्ञानत्वे प्राभाकरमतसिद्धि:, तत्र करणज्ञानस्य परोक्षव्यवस्थितेः फलज्ञानस्य प्रत्यक्षत्वोपगमात् । ततः प्रत्यक्षकरणज्ञानमिच्छतां (द्भिः) न तच्छक्तिरूपमेषितव्यं स्याद्वादिभिरिति चेत् ; तदनुपपन्नम् ; एकान्ततोऽस्मदादिप्रत्यक्षत्वस्य करणज्ञानेऽन्यत्र वा वस्तुनि प्रतीतिविरुद्धत्वेनाऽनभ्युपगमात् । द्रव्यार्थतो हि ज्ञानमस्मादेः प्रत्यक्षम्, प्रतिक्षणपरिणामशक्त्यादिपर्यायार्थतस्तु न प्रत्यक्षम् । तत्र स्वार्थव्यवसायात्मकं ज्ञानं स्वसंविदितं फलं प्रमाणाभिन्नं वदतां करणज्ञानं प्रमाणं कथम प्रत्यक्षं नाम ? | न च येनैव रूपेण तत्प्रमाणं तेनैव फलं येन विरोधः । किं तर्हि ? | साधकतम - त्वेन प्रमाणं साध्यत्वेन फलम् । साधकतमत्वं तु परिच्छेनशक्तिरिति प्रत्यक्षफलज्ञानात्मकत्वात् प्रत्यक्षं, शक्तिरूपेण परोक्षम् । ततः स्यात्प्रत्यक्षं स्यादप्रत्यक्षमित्यनेकान्तसिद्धिः । यदा तु प्रमाणाद्भिन्नं फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा स्वार्थ व्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धमेवेति, न परमतप्रवेशः, तच्छक्तेरपि सूक्ष्मायाः परोक्षत्वात् । तदेतेन सर्वं कर्त्रादिकारकत्वेन परिणतं वस्तु कस्यचित्प्रत्यक्षं परोक्षं च कर्त्रादिशक्तिरूपतयोक्तं प्रत्येयम् । ततो ज्ञानशक्तिरपि च करणत्वेन निर्दिष्ठा न स्वागमेन युक्त्या च विरुद्धा इति सूक्तम् " इति ।
"
पृ. २. पं. ६ लब्धीन्द्रियमेवेति इन्द्रियं द्विविधं द्रव्येन्द्रियभावेन्द्रियभेदात् । तत्र द्रव्येन्द्रियं निर्वृतीन्द्रियोपकरणेन्द्रियभेदाद्विधा निवृत्तीन्द्रियं चक्षुरादीनां गोलकाद्यधिष्ठानम् उपकरणेन्द्रियं तद्गतशक्तिविशेषः । भावेन्द्रियमपि द्विधा उपयोगेन्द्रियलब्धीन्द्रियभेदात्, तत्र उपयोगेन्द्रियं स्वपरव्यवसायिज्ञानस्वरूपमात्मनोऽर्थोपलब्धिक्रियाजनने व्यापारस्वरूपम् । तस्योपयोगस्यार्थग्रहणशक्तिस्वरूपं लब्धीन्द्रियम् तस्यैव प्रमाणत्वं नान्येन्द्रियाणामित्येतदर्थमेवकारोपादानम् एतन्मतं प्रतिक्षिपति ।
पृ. २. पं. ७ तदपेशलमिति - लब्धीन्द्रियस्य प्रमाणत्वसमर्थनमसुन्दरमित्यर्थः । अर्थप्रमितिलचणफलम्प्रति यदव्यवधानेन करणं तदेव साधकतमत्वात्प्रमाणम् । एतादृशञ्च स्वपरव्यवसायिज्ञानमेव तदात्मकोपयोगद्वारा अर्थग्रहणशक्तिलक्षणं लब्धीन्द्रियञ्च व्यवहितं कारणमिति तन्न साधकतममिति न प्रमाणम्, व्यवहितकारणस्य प्रमाणत्वाभ्युपगमे द्रव्येन्द्रियादेरज्ञानस्यापि प्रमाणत्वं स्यादित्याशयेनाह ।