________________
१. प्रमाणपरिच्छेदः । स्यैकस्मिन्नपि क्षणे उपपद्यते । तथाहि, नैयायिकवैशेषिकादिभिरीश्वरज्ञानं नित्यमपि प्रमोपेयते, ईश्वरश्च तदकर्ताःपि प्रमाता, तथा तदकरणमपीश्वरः प्रमाणं, तथा च प्रमाणजन्यत्वाभावेऽपि प्रमास्वरूपतया फलस्वरूपमीश्वरज्ञानं तत्कर्तृत्वाभावेऽतद्वत्त्वान्प्रमाता महेशः प्रमात्मकस्वज्ञानकरणत्वाभावेऽपि तदयोगव्यवच्छेदक्चात् प्रमाणमीश्वरः । तदुक्तं कुसुमाञ्जलावुदयनाचार्यण
मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता ।
तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ १ ॥ इति ॥ अस्यार्थः-मितिः-प्रमितिः सम्यक परिच्छित्तिः यथार्थज्ञानं तद्वत्ता सम्यक परिच्छित्तिलक्षण प्रमाधिकरणता, प्रमातृता-प्रमातृभावः, तदयोगव्यवच्छेदः सम्यक परिच्छित्तिलक्षणया प्रमया सह अयोगस्यासम्बन्धस्य व्यवच्छेदोऽभावः, प्रामाण्यं प्रमाणत्वं गौतमे मते न्यायमते, इति एवमेव स्याद्वादेऽपि स्वव्यवसायिन्या प्रमया सह तदात्मकस्य स्वपरव्यवसायिनः प्रमाणस्य तादात्म्यलक्षणस्य योगस्य सद्भाव तदभावलक्षणायोगस्य व्यवच्छेदस्तादात्म्यलक्षणो योगोऽस्तीति तल्लक्षणं प्रामाण्यं सङ्गतिमश्चत्येव । स्वम्प्रति स्वस्य करणत्वाभावेऽपि यथा प्रमाणोपपत्ति स्तथा स्वकार्यत्वाभावेऽपि प्रमायाः फलत्वं निर्वहत्येव, प्रमाणस्य हि अज्ञाननिवृत्तिः फलं ज्ञानाभावत्वाज्ञानं तन्निवृत्तिस्तु ज्ञानमेवाभावाभावस्य प्रतियोगि रूपत्वात , ज्ञानञ्च यद्यपि प्रमाणप्रमोभयस्वभावं तथापि स्वव्यवसितिस्वभावस्वरूपमेव तरफलरूपमज्ञाननिवृत्तिलक्षणं ज्ञानं, यतोऽयं घटः इत्यतो न भवति ज्ञातो घट इति व्यवहारः किन्तु घटमहं जानामीत्यनन्तरमेव, ज्ञातो घट इति व्यवहारोऽज्ञाननिवृत्यनन्तरमेवावश्यम्भावीत्यतो निर्णीयतेऽर्थज्ञातताव्यवहारनिबन्धनत्वात्स्वव्यवसितिलक्षणप्रमाणरूपैवाज्ञाननिर्वृत्तिः फलं, यदाऽपि च संशयविपर्ययानध्यवसायलक्षणसमारोप एवाज्ञानं तदाऽपि तन्निवृत्तिः सम्यग्ज्ञानस्वरूपैवेति । तत्वार्थश्लोकवार्तिके विद्यानन्देन अर्थग्रहणशक्तिस्वरूपमेव प्रमाणं प्रकटीकृतं तन्मतं प्रतिक्षेप्तुमुपन्यस्यति। केचिदिति अस्य सङ्गिरन्ते इत्यनेनान्वयः, अर्थग्रहणशक्तेः प्रमाकरणत्वात्प्रमाणत्वमित्यर्थकस्य ततोऽअर्थग्रहणकारेति पद्यस्य तदीयं व्याख्यानं यथा “न हि अन्तरङ्गबहिरङ्गर्थग्रहणरूपात्मनो ज्ञानशक्तिकरणत्वेन कथञ्चिनिर्दिश्यमाना विरुध्यते," सर्वथा शक्तिवतोéदस्य प्रतिहननात् । ननु च ज्ञानशक्तिर्यदि प्रत्यक्षा तदा सकलपदार्थशक्तेः प्रत्यक्षत्वप्रसङ्गादनुमेय