________________
जैन तर्कभाषा |
सायिज्ञानस्य प्रमाणलक्षणत्वे चेत्यर्थः, अत्र आत्मा ज्ञानेनार्थम्ममिणोतीत्यनुभवः साक्षिभावं भजते, स्पर्शादिविषयप्रकाशस्वरूपक्रियाम्प्रति कर्तृकारकरूपस्यात्मनस्व्यापारत्वं छेदनलक्षणक्रियाकर्तुरत्तीक्ष्णकुठारादिकरणोत्पतन निपतनानु
कूलयत्नलक्षणव्यापारवत्च्त्वमावश्यकं व्यापारमन्तरेण कर्तुः क्रियाकारकत्वासम्भवात् स च व्यापारउपयोग एव तस्य स्वपरव्यवसायित्वात्क्रियायाश्वापि स्वपरव्यवसायित्वमित्याशयेनाह ।
५२
पृ. १. पं. १६ “ न ह्यव्यापृतेति " सव्यापारायैवात्मनो ज्ञानलक्षण क्रियाजनकत्वमिति नियमानभ्युपगमे इन्द्रियसन्निकर्षमात्रेणात्मनस्तत्क्रियाक र्तृत्वाभ्युपगमे च सुषुप्तिसमयेऽपि देहव्यापकत्वगिन्द्रियेण मसृणतूलिकादिसन्निकर्षस्य सद्भावात्तेन तूलिकादिस्पार्शनज्ञानस्योत्पत्तिप्रसङ्गे न स्पार्शनज्ञानाद्यभावलक्षणसुषुप्त्यवस्थैव विलीयेतेत्याह । “ मसृणेति " तत्प्रसङ्गात्स्पर्शादिप्रकाशप्रसङ्गात्, ननु आत्मव्यापाररूपस्योपयोगेन्द्रियस्य प्रमाणत्वे तद्भिन्नमेव फलं स्यादन्यथा स्वस्यैव स्वम्प्रतिकरणत्वं स्वम्प्रति क्रियात्वं विरुद्धं स्यात्क्रियाकरणभावस्य पौर्वार्यनियतत्वात्, न हि स्वमेव स्वस्मात्पूर्वं परञ्च सम्भवति, भेदे च स्वव्यवसायिनः फलस्य परव्यवसायित्वं परव्यवसायिनः प्रमाणस्य स्वव्यवसायित्वञ्चानुपपन्नम् स्वरूपतो भिन्नयोरपि प्रमाणफलयोरुपयोगस्वभावत्वेनाभेदमभ्युपेत्य स्वपरव्यवसायित्वस्याभ्युपगमे नीलज्ञानाज्जायमाने पीतज्ञानेऽपि नीलविषयत्वं स्यात्पीतज्ञानजनके च नीलज्ञाने पीतविषयत्वं च प्रसज्येत, उपयोग स्वभावत्वेन तयोरप्यभेदस्य भावादिति चेत् । न, एक विषयकैकजातीयोपयोगस्थले यावन्नविषयान्तरोपयोगस्तावत्कालं समानविषयको पयोगस्यावान्तरवैलक्षण्ये न बैलक्षण्यभावेऽपि तावदुपयोगव्यापि दीर्घोपयोगस्यैकस्य भावेन तदात्मनाऽवान्तरवैलक्षण्यापन्नोपयोगयोरभेदस्याभ्युपगमेन तद्धलात्फलाभिन्नस्य प्रमाणस्य फलविषयस्वव्यवसायित्वस्य प्रमाणाभिन्नस्य फलस्य च प्रमाणविषयपरव्यवसायित्वस्य च सम्भवेन फलप्रमाणयोः स्वपरव्यवसायित्वस्योपपत्तेः, नीलज्ञानपीतज्ञानयोश्च भिन्नविषयकयोर्विजातीययोर्वा कार्यकारणभावमापन्नयोर्यावत्कालमवस्थानं तदन्यतरनिरूपितं तावत्कालीनस्तदुपयोगद्वयव्यापीदीर्घोपयोग एको नाभ्युपगम्यत इति न तदात्मना तदुपयोगद्वयस्याभेद इति तयोरन्योन्यविषयविषयकत्वस्य तद्बलादापत्तेरसम्भवात् । यद्वा प्रमाणफलभाव एकस्याप्युपयोग