________________
१. प्रमाणपरिच्छेदः।
नामीति तादृशेन संवेदनेन ज्ञानस्य कुत्र प्रामाण्यमिति न निर्णीयते, तादृशसंवेदनस्वरूपतयैव च ज्ञानस्य प्रामाण्याभ्युपगमे स्वसंविदितं घटप्रत्यक्षमिव पटप्रत्यक्षमपीति स्वसंवेदनस्वरूपत्वाविशेषाद्घटप्रत्यक्षवत्पटप्रत्यक्षमपि घटे प्रमाणं स्यादिति पटप्रत्यक्षसंवेदनादपि घटसिद्धिः प्रसज्येत परव्यवसायित्वेन प्रामाण्ये च स्वव्यवसितित्वस्याविशेषेऽपि परव्यवसितित्वस्वभावाद्घटप्रत्यक्षमेव घटे प्रमाणं न पटप्रत्यक्षम् , तत एव चार्थेनैव विशेषो हि निराकारतयाधियामीति वचनमपि व्याख्यातं भवति । यन्न स्वस्वरूपपवभासयति तन्न परस्वरूपमप्यवभासयति यथा स्तम्भादिकम् , स्वस्वरूपं नावभासयति चाज्ञानरूपमिन्द्रियतत्सन्निकर्षादिस्ततो नार्थावभासकमिति नैयायिकाभ्युपगतस्यास्व संविदितज्ञानस्य स्वप्रका. शत्वाभावात्परप्रकाशकत्वं न स्यादिति । परव्यवसितित्वाभावेन प्रामाण्यं न भवे. देवेति प्रामाण्योपपादकत्वेन स्वसंवेदनस्य खव्यवसितिपर्यवसन्नस्य भवेदुपादेयताऽपीति युक्तमुक्तं प्रमाणस्य परव्यवसायित्वं फलस्य च स्वव्यवसायित्वमिति । प्रमाणफलयोरुक्तदिशाभेदेऽपि उपयोगात्मना कथञ्चिदभेदस्यापि भावेन फलस्य स्वव्यवसायित्वे तदभिन्नत्वात्प्रमाणस्यापि स्वव्यवसायित्वमेवं प्रमाणस्य परव्यव. सायित्वात्तदभिन्नत्वात्फलस्यापि परव्यवसायित्वमित्येवं तयोर्द्वयोरपि स्वपरव्यवसायित्वस्योपपत्तिरति समाधत्ते ।
पृ. १. पं. १४ न प्रमाणफलयोः कथश्चिदभेदेनेति, तदुपपत्तेः स्वपरव्यवसायित्वस्य सम्भवात् , उक्तशङ्कासमाधानमूलीभूतस्य ।
ज्ञानस्याथ प्रमाणत्वे फलत्वं कस्य कथ्यते । स्वार्थसंवित्तिरस्त्येव ननु किन्न विलोक्यते ? ॥१॥ स्यात्फलं स्वार्थसंवित्तियदि नाम तदा कथम् । स्वपरव्यवसायित्वं प्रमाणे घटना मियात् ॥ २॥ स्यादभेदात्प्रमाणस्य स्वार्थव्यवसितेः फलात ।
नैव ते सर्वथा कश्चिदुषणक्षण ईक्ष्यते ॥ ३॥ इति वचनकदम्बकस्यापि स्याद्वादरत्नाकरगतस्योक्ताभिप्रायोऽनुशीलनीयः। यदा च प्रमाणफलयोरुक्तदिशा भेदाऽभेदोऽपि च तदाऽऽत्मनो व्यापाररूपमुपयोगेन्द्रियमेव स्वपरव्यवसायिज्ञानत्वात्प्रमाणं न तु चक्षुसदीन्द्रियं जडरूपं खपरव्यवसायिज्ञानरूपत्वाभावात्प्रमाणमिति निगमयति । इत्थश्चेति स्वपरव्यव