________________
५०
तर्कभाषा ।
ननु योग्यताज्ञानशाब्दबोधयोः कार्यकारणभावेऽपि समानविषयकत्वं दृश्यत एवेति फलस्य स्वपरव्यवसायित्वेऽपि प्रमाणस्यापि स्वपरव्यवसायित्वं स्यादेवेति प्रमाणस्य परव्यवसायित्वाफलस्य च स्वव्यवसायित्वादिति हेतूपादानं प्रमाणस्य स्वपरव्यवसायित्वासम्भवप्रतिपत्तयेऽयुक्तमिति चेत्, न, अन्यत्रभिन्नयोः समानविषयतया कार्यकारणभावे समानविषयतया कार्यकारणभावे समानविषयकत्वस्य सम्भवेऽपि प्रकृते य एव प्रमाणस्य स एव यदि फलस्वापि विषयस्तदा फलेन यत्प्रकाशयितव्यं तत्प्रमाणेन प्रकाशितमेवेति न तत्प्रकाशनेन फलं किञ्चिदित्यतः प्रमाणफलयोर्विषयभेदस्यावश्यमभ्युपगन्तव्यत्वात् ननु प्रमाणफलयोर्विषयभेदः प्रमाणस्य स्वप्रकाशकत्वेन स्वव्यवसायित्वात् फलस्य परप्रकाशकत्वेन परव्यवसायित्वादुपपद्यत इति प्रमाणस्य परव्यवसायित्वं फलस्य स्वव्यवसायित्वमित्यत्र विनिगमकन्नास्तीति वाच्यम् । यतः घटमहञ्जानामीत्याद्यनुव्यवसायस्यायं घट इत्यादि व्यवसाय फलत्वं ज्ञानस्य समानाधिकरणसमनन्तरज्ञानवेद्य त्वमभ्युपगच्छता नैयायिकेनाभ्युप्रेयत एव तद्विषयकप्रत्यक्षम्प्रतिविषयस्य तस्य कारणत्वात्, इतिवस्तुस्थितौ परप्रकाशेऽनवस्थानात्स्वप्रकाशमभ्युपगच्छद्भिः स्याद्वादिभिरेक स्यैव ज्ञानस्यायं घटः घटमहञ्जानामीत्युभयाकारकत्वमुपेयते इति घट महञ्जानामीत्यनुव्यवसायस्थानीयस्त्र संवेदनरूपस्वव्यवसितेः फलत्वं तज्ज्ञानीयव्यवसायस्थानीयायं घटइति बाह्यघटादिलक्षणपरप्रकाशस्वरूपस्य परव्यवसितेः प्रमाणत्वं युज्यत एव । अपि च सर्वमेव ज्ञानं स्वसंविदितमिति स्वांशेन संशयवादिरूपं, न हि भवति यस्य कस्यचिदपि ज्ञानस्योत्पत्तौ ज्ञानवानहं न वेति संशयो न ज्ञानवानिति विपर्ययोऽनध्यवसायो वेति खांशे समारोपानात्मकत्वात्स्वव्यवसितिरूपमिति तदंशस्य ज्ञानसामान्यकारण कूटलक्षणज्ञानसामग्रीजन्यत्वान्न प्रत्यक्षादिप्रमाणलक्षणज्ञानविशेष प्रयोजकसामग्रीजन्यत्वमिति प्रमाणको विवहिर्भावात्प्रमाणफलत्वं घटपटादिबाह्यविषयकत्वात्परप्रकाशकत्वं तदंशे दोषादिघटितसामग्री प्रभवत्वे प्रमेयव्यभिचारित्वलक्षणमप्रामाण्यं तच्चावान्तरसामग्रीविशेषप्रभवत्वेन संशयत्वविपर्ययत्वादिरूपतामञ्चति । गुणादिघटिवसामग्रीप्रभवत्वे यथावस्थितत्वेन निश्चयत्वलक्षणप्रमेयाव्यभिचारित्वस्वरूपपरव्यवसायित्वम्, तच्च अवान्तरसामग्रीविशेषप्रभवत्वेन प्रत्यक्ष परोक्षप्रमाणत्वतदवान्तरप्रमाणभेदरूपतामासादयतीति, प्रमाणकोटिसन्निवेशस्तदंशस्येति, एवं प्रत्यक्षमात्रस्य संवेदनं साक्षात्करोमीति, अनुमितिमात्रस्य संवेदनमनुमिनोमीति प्रत्यभिज्ञानमात्रस्य संवेदनं प्रत्यभिजा