________________
१. प्रमाणपरिच्छेदः। वचनञ्च व्यावर्तकविशेषणपरं, तस्य हि विशेष्ये सम्भवोऽपि वर्तते, व्यभिचारोऽपि, तद्विनाऽपि विशेष्यतावच्छेदकाकान्तस्यान्यस्य सद्भावात् , तस्यापि च विशेष्यतावच्छेदकशून्ये वृत्तेः, तत्र शुक्ल जलमित्यत्र जलस्य शौक्लयं विशेषणं प्रथम, तत्र सम्भवमात्रम् , द्वितीयं नीलो घट इत्यत्र घटस्य नीलरूपत्वा , प्रकृते च स्वपरेति विशेषणं व्यवसायिज्ञानात्मक पमाणस्य स्वरूपपरिज्ञानफलकमुक्तमि त्यर्थः । ननु स्वपरेति स्वरूपविशेषणमेवेत्याश्रयणे व्यवसायिज्ञानं प्रमाणमित्येवा. श्रितं स्यात् यथावस्थितत्वेन निश्चय एवं व्यवसाय इति शब्दान्तरेण सम्यग्ज्ञानं प्रमाणमित्याख्यातं, सम्यग्ज्ञानश्च प्रमैव तस्येदानीं प्रमाणत्वे आश्रिते करणन्तसंवृत्तं, तदतिरिक्तं फलं वक्तव्यं, न च तद्वक्तुं शक्यमिति फलाभावात्करणमप्यनुपपन्नमिति, करणार्थकप्रत्ययान्तमाधातुनिष्पन्न प्रमाणपदार्थरूपलक्ष्यस्य तादात्म्येन लक्षणत्वमप्युक्तज्ञानस्य न सम्भवतीत्याशङ्कते ।
पृ. १. पं. ११ 'नन्विति' किमित्याक्षेपे, न किञ्चिदिति तदर्थः ।
पृ. १. पं. ११ ‘अन्यत्' सम्यग्ज्ञानरूपममाणाद्भिन्नम् , “तत्फलं" सम्यग्ज्ञानलक्षणप्रमाणफलम् , प्रमाणतत्फलयोः कथश्चिद्भेदाभेदस्यैव स्याद्वादे स्वीकृतत्वेन प्रमाणात्सर्वथाभिन्नस्य तत्फलस्याभावेनोपदेष्टुमशक्यत्वेऽपि प्रमाणात्कथञ्चिद्भिनाभिन्नस्य स्वार्थव्यवसितिलक्षणस्य तत्फलस्य सम्भवान्नोक्ताक्षेपः स्याद्वादिनम्प्रति कमापदोषमावहतीति समाधत्ते “सत्यमिति” अन्यत्फलापाकरणमिष्टमेवेत्यर्थः।
पृ. १. पं. १२ "तत्फलत्वात्" प्रमाणफलत्वात् , ननु यथा च भवन्मते व्यवसायिज्ञानमात्रस्य प्रमाणलक्षणत्वोपपत्तौ स्वपरेतिस्वरूपविशेषणार्थमेव, लक्षणे तदनिवेशेऽपि नाव्यायादिदोषः, तथा स्वार्थे त्वपि स्वरूपविशेषणार्थमेव, स्वार्थ व्यवसितिरूपत्वादेव तद्रूपाया एव तस्याः फलत्वसिद्धेः । न चैवं व्यवसितिः प्रमाणं व्यवसितिः फलमित्ये केनैव धर्मेण प्रमाणत्वं फलत्वश्च स्यातच न सम्भवति प्रमाणफलभावस्य भेदनियतत्वादिति वाच्यम् , तथा सति स्वव्यवसायित्वेन फलत्वं परव्यवसायित्वेन प्रमाणत्वमित्येवमवश्यमभ्युपगन्तव्यत्वेन प्रमाणस्य स्वपरव्यवसायित्वं स्वाभ्युपगतं न स्यादिति शङ्कते । । __पृ. १. पं. १३ " नन्वेवमिति" एवं स्वार्थव्यवमिनेः फलत्वाङ्गीकारे,