________________
जैनतर्कभाषा ।
रजतमित्याकारेक विपर्यये, “किमित्यालोचनमात्रमनध्यवसायः" इतिसूत्र लक्षिते किमपि मया स्पृष्टमित्याकारके गच्छत्तृणस्पर्शज्ञानरूपे अनध्यवसायज्ञाने च प्रमाणातात्मके ज्ञानत्वस्य सत्त्वेनातिव्याप्तिवारणाय व्यवसायिपदमित्यर्थः । तथा, च यथास्थितत्वेन निश्वयत्वलक्षणव्यवसायत्वं तद्वति तत्प्रकारकनिश्चयत्वपर्यवसितं । संशये च तदभावाप्रकारकत्वस्य निश्चयत्वघटकस्याभावाद्विपर्यये च तद्धतितत्प्रकारकत्वस्याभावादनध्यवसाये च नियतप्रकारता विशेष्यत्व योनिरूपकत्वस्याभावान्नव्यवसायित्वं, संशयविपर्ययानध्यवसायाश्च समारोपास्तद्विरोधी च व्यवसाय इति समारोपेऽतिव्याप्तिवारणायेत्युक्तौ लाघवसम्भवेऽपि स्पष्टप्रतिपत्तयइत्थमभिधानम् । यद्यपि स्वमते ज्ञानमात्रं स्वप्रकाशस्वरूपं परप्रकाशकं चेति स्वपरेतिविशेषणानुपादानेऽपि नातिव्याप्तिः, तथापि ज्ञानमात्रमतीन्द्रियं, किन्तु स्वजन्यज्ञाततालिङ्गकानुमानेन तद्गृह्यते, तदनुमानप्रयोगश्च इयं घटनिष्ठज्ञातता घटत्वप्रकारक घटविशेष्यकज्ञानजन्या घटत्वप्रकारकघटनिष्ठज्ञातता त्वाद्, यायत्प्रकारिका यन्निष्ठज्ञातता सा तत्प्रकारक तद्विशेष्यकज्ञानजन्या यथा पटत्व प्रकारकपटनिष्ठज्ञाततेतीस्येवं परोक्षज्ञानवादिनो मीमांसकप्रकाण्डस्य कुमारिलभट्टस्य, निर्विकल्पकज्ञानातिरिक्तं ज्ञानमात्रं यद्यपि प्रत्यक्षस्वरूपयोग्यं तथापि ईश्वरयोगिज्ञानातिरिक्तस्य तस्य स्वविषयकत्वं न सम्भवतीति स्वसमानाधिकरणस्वानन्तरोत्पन्नानुव्यवसायात्मकप्रत्यक्षज्ञानेन व्यवसायो गृह्यते, यथा अयं घट इति व्यवसायो घटमहञ्जानामीत्यनुव्यवसायेन गृह्यत इत्येवं स्वसमानाधिकरणसमनन्तरप्रत्ययवेद्यं ज्ञानमितिवादिनो नैयायिकस्य, वैशेषिकस्य चापरप्रकाशज्ञानिनो मतं, तादात्म्यमेव विषयविषयिभावनिबन्धनमिति ज्ञानाभिन्नो ज्ञानाकारं एवं ज्ञानविषयः ज्ञानाकाराद्भिन्नं बाह्यं वस्तु समस्त्येव नेतिस्वमात्रविषयकमेव सर्व ज्ञानं बाह्यवस्तुनोऽभावादेव न बाह्यवस्तुविषयकमितिज्ञानाद्वैतवादिनो योगाचारस्य बौद्ध विशेषस्य मतञ्चापहस्तयितुं स्वपरेति विशेषणमित्याह
४८
पृ. १. पं. ८. “ परोक्षबुद्धयादीति, " आदिपदात्समानाधिकरणसमनन्तरस्वावषयकप्रत्यक्षवेद्यबुद्धयुपग्रहः, मीमांसकादीनामित्यत्रादिपदाद्वैशोषिकाग्रुपग्रहः । स्वरूप विशेषणार्थमुक्तमिति । विशेषणं द्विविधं - स्वरूपविशेषणं व्यावर्त्तविशेषणञ्च । स्वरूपविशेषणमेव चोपरजकविशेषणमुच्यते, स्वरूपपरिज्ञानरूपफलत्वेनास्यापि न निष्फलत्वम्, सम्भवव्यभिचाराभ्यां स्याद्विशेषणमर्थवदिति