________________
१. प्रमाणपरिच्छेदः। पृ. १. पं. ६. “यथास्थितत्वेन” यस्य ज्ञानस्य यद्रूपं प्रत्यक्षत्वानुमितित्वादिकं बाह्यार्थस्य च स्वस्मिन् वर्तमान यदूपं तद्रूपेण यद्यपि लक्षणवाक्ये लक्ष्यमुद्दिश्य लक्षणं विधीयत इति उद्देश्यविधेयवचनयोरावश्यकत्वमेवेति केवलं प्रमाणमितिपदं विभक्तिलक्षणपदसमभिव्याहारमाश्रित्य वाक्यं भवदपि लक्ष्यमात्रप्रतिपादकत्वान्न लक्षणवाक्यमतो ज्ञानपदानुपादानेऽन्यदेव किश्चिदुपयोगादिपदमुपात्तं स्यात् । न च तदुपात्तमितिलक्षणवाक्यत्वोपपत्त्यर्थमेव ज्ञानपदम् , तथापि प्रमाणमित्यस्यैव रूट्यर्थ किश्चिल्लक्ष्यं किश्चिच प्रमाणत्वादिनापरिकल्पितादिरूपं लक्षणमित्यभ्युपेत्य प्रमाणमिति लक्षणवाक्यं काममस्तु, किं ज्ञानपदोपादानेनेत्यत आह
पृ. १. पं. ७. " अत्रेति" उक्तलक्षणवाक्य इत्यर्थः, स्वमते सामान्य मात्र विषयकग्रहणमनाकारोपयोगस्वरूपं दर्शनमित्युच्यते । तत्स्थाने सामान्यनुपगबाबौद्धेन स्खलक्षणमात्रगोचरं निर्विकल्पकप्रत्यक्षमुपेयते, तच्च न प्रमाणमयापि प्रत्यक्षप्रमाणतया तेनाभ्युपेयते, वस्तुतोऽलक्ष्ये तत्र लक्षणगमनादातव्याप्तिस्स्यादतस्तद्वारणाय ज्ञानपदं । तच्च विशेषावगाहिबोधे सविकल्पकात्मके सङ्केतितमिति दर्शनस्यातथात्वात्रतत्राति व्याप्तिः; यदा च बौद्धाभ्युपगतस्वलक्षणविषयकनिविकल्पकप्रत्यक्षात्मकदर्शन एवातिव्याप्तिवारणाय ज्ञानपदोपादानमुपपादितं तदा ज्ञानदर्शनयोरेक्यमभ्युपगच्छतान्नव्यानां मते लक्ष्यतया दर्शने तिव्याप्त्यसम्भवे. ऽपिग्रन्थकारोपाध्यायमते नैश्चयिकावग्रहस्वरूपस्य दर्शनस्य मतिज्ञानत्वेन प्रामाण्येऽपि न क्षतिः । अपि चोक्तलक्षणं श्रीमद्देवमूरिनिर्दिष्टमेव, तन्मते च दर्शनं ज्ञानात्पृथगेवाभिमतमिति तदुक्तलक्षणघटकविशेषणव्यावृत्तिस्तन्मतमवलम्ब्ययु. तमेव । वस्तुतो दृश्यतेऽनेनेति दर्शनमितिव्युत्पत्या दर्शनपदेन प्रत्यक्षकारणमिन्द्रियमिन्द्रियसन्निकर्षो वाऽज्ञानरूपमपि प्रमाणतया नैयायिक वैशेषिकाम्या मुपगतं, तस्य चाज्ञानरूपतया प्रामाण्यान्न जैनमतेऽभ्युपगतमिति लक्ष्यभिन्ने तत्र लक्षणगमनवारणाय ज्ञानपदमिति बोध्यम् , व्यवसायीति विशेषणस्य प्रयोजनमुपदर्शयति ।
पृ १. पं. ७. “संशयेति” “साधक-बाधक प्रमाणाभावादनवस्थिता. नेककोटि संस्पशिज्ञान संशयः" इति सूत्र लक्षितेऽयं स्थाणुर्वा पुरुषो वेत्याकारके संशये, “विपरीतैककोटिनिष्टङ्कनं विपर्ययः" इतिसूत्रलक्षिते शुक्तिकायामिदं