________________
जैनतर्कभाषा। ज्ञानं, प्रशब्दाव्यवहितोत्तरेण भावल्युडन्तेन करणल्युडन्तेन वा “मा" धातुना प्रत्याय्यत इति प्रमाणमिति लक्ष्यवचनं स्वपरव्यवसायिज्ञानमिति लक्षणवचनं च समानार्थमिति उद्देश्यतावच्छेदक विधेयतावच्छेदकयोरेके य घटो घट इत्यस्मादिव प्रकृतलक्षणवाक्यादपि शाब्दबोधानुपपत्तिः, व्युत्पत्तिनिमित्तादन्यत्पमाणपदप्रवृत्तिनिमित्तश्चाखण्डं दुर्निरूपम् , तथापि प्रत्यक्षं प्रमाणमनुमानं प्रमाणम्प्रत्यभिज्ञानम्प्रमाणं स्मृतिःप्रमाणमित्याद्यनुगतप्रतीति सिद्धमनुगतमस्त्येव किश्चित्प्रमाणत्वं स्वपरव्यवसायिज्ञानत्वसमनियतं तदन्यत्तदेव च लक्ष्यतावच्छेदकं तद्विशिष्टमेव च प्रमाणमिह प्रमाणपदेन विवक्षितम् , स्वपरव्यवसायिज्ञानत्वाभित्रत्वेऽपि वा प्रमाणत्वस्य प्रमाणत्वत्वेन लक्ष्यतावच्छेदकत्वं स्वपरव्यवसायिज्ञानत्वत्वेन लक्षणतावच्छेदकत्वमित्यपि स्याद्वादिना वक्तुं शक्यत एव, तन्मते एकस्यापि निरुक्तज्ञानत्वस्योक्तरूपाभ्यां भेदसम्भवात् । तथा, स्वपरव्यवसायि. ज्ञानत्वमपि स्वव्यवसायिज्ञानत्वपरव्यवसायिज्ञानत्वाभ्यामभेदेनाकलितं द्विस्वभावमिति, तत्र स्वव्यवसायिज्ञानत्वस्वभावात्मना प्रमात्मकफलतावच्छेदक, परव्यवसायिज्ञानत्वस्वभावात्मना प्रमाणात्मककरणशक्त्यवच्छेदकमित्यपि बोध्यम् । लक्षणांशं विवृणोति ।
पृ. १. पं. ४ “स्वमिति" आत्मेति, कस्यात्मेत्यनुक्तौ घटात्मापटात्मेत्येवं घटादिस्वरूपे सर्वत्रात्मशब्दप्रयोगाद् घटाद्यात्मनोऽपि स्वशब्देन ग्रहणं प्रसज्येत, एवं जैनमते घटादिव्यवसायो घटमहज्जानामीत्यादिस्वरूपमेव । तत्र चाहम्पदवाच्यस्य प्रमातुरात्मनोऽपि भानम्भवतीति प्रमातास्वशब्द ग्राह्य इति भ्रान्तिरपि प्रसज्यतेत्यतस्तत्पर्यवसितार्थमाह-"ज्ञानस्यैव स्वरूपमित्यर्थः" इति । साक्षात्परम्परया वा यः स्वार्थस्य विशेष्यः यश्च समभिव्याहतक्रियाकारकपदार्थस्तदुभयत्र स्वपदस्य शक्तिरिति स्वपरव्यवसायिज्ञानमित्यत्र स्वशब्दार्थस्य परम्परया विशेष्यज्ञानमेवेति ज्ञानस्यैव स्वरूपं खशब्दप्रवृत्तिनिमित्ताकान्तत्वारस्वशब्देन ग्रहीतव्यमित्यर्थः। परपदेन भिन्नस्वरूपबोधकेनाशेषस्यापि जगतो ग्रहणं प्रसज्येतेत्यत आह- ..
पृ. १. पं. ५. "परस्तस्मादन्य" इति, ज्ञानस्वरूपाद्भिन्नः परपदेन ग्राह्य इत्यर्थः । ज्ञानस्वरूपादन्य आत्माऽपि तद्वयवसायिभ्रमज्ञानमपीत्यत आहः
पृ. १. पं. ५. “अर्थ इति यावदिति ।” यज्ज्ञानस्य यो ज्ञेयो वा हियर्थस्य एव परपदेनात्राभिप्रेत इत्यर्थः । तौ ज्ञानखरूपवाद्यार्थी