________________
१. प्रमाणपरिच्छेदः ।
प्रवृत्तिकारणयोरिदम्मदिष्टसाधनमिति इदम्मत्कृतिसाध्यमितिज्ञानयोरभावात्तदध्ययनार्थं प्रेक्षावतां प्रवृत्तिरेव न स्यात् । अभिधेयः प्रयोजनमधिकारीसम्बन्धश्रेत्येतदनुबन्धचतुष्ठयम्, तल्लक्षणन्तु प्रवृत्ति प्रयोजकज्ञानविषयत्वं प्रवृत्तिजनकज्ञानजनकज्ञानविषयत्वं वा । प्रथमे जनकजनकं प्रयोजकम्भवतीति कृत्वा प्रवृत्तिप्रयोजकमभिधेयादिचतुष्टयज्ञानं तद्विषयत्वमभिधेयादिचतुष्टये । द्वितीये प्रवृत्तिजनकम्मदिष्टसाधनताज्ञानं मत्कृतिसाध्यताज्ञानञ्च तज्जनकमनुबन्धचतुष्ठयज्ञानं तद्विपयत्वमनुबन्धचतुष्टये समस्तीतिलक्षणसमन्वयः । तथा चैतद्गन्थाध्ययनप्रवृत्त्यर्थममिधेयादिस्वरूपानुबन्धचतुष्टयप्रतिपादनायोकं प्रमाणनयनिक्षेपैरिति, उपलक्षणे चेयं तृतीया, प्रमाणनय निक्षेपोपलक्षितत्वञ्च प्रकृत तर्कभाषाभिधग्रन्थस्य प्रतिपादकतयेति, न तु करणाभिधायिनीयं तृतीया । तथा सति तस्यास्तनोमीत्यनेनैवान्वयस्य वक्तव्यत्वेन तर्कभाषाभिधेयस्यान्यस्यैव कस्यचिद्विशदीकरण मेभिरिति स्यान्न च तथात्र समस्तीति एवञ्च प्रमाणनयनिक्षेपा अभिधेयाः । तैस्सह ग्रन्थस्य प्रतिपाद्यप्रतिपादकभावस्सम्बन्ध इत्येतदयं साक्षात्प्रतीयते, प्रमाणनयनिक्षेपज्ञानं प्रयोजनं तत्कामोऽधिकारीति प्रयोजनाधिकारिणावर्थात्प्रतीयेते । प्रमाणनयनिक्षेपाणाञ्च ज्ञानरूपमेवानुष्ठानं तच्च शक्यमेवेति नाशक्यानुष्ठेयत्वमभिधेयस्य तत्प्रतिपादकत्वमप्यु कशास्त्रस्य सम्भवत्येवेति नासम्बद्धत्वं, निरुक्ताभिधेयपरिज्ञानञ्चोपादेयार्थविषयकत्वेन काम्यत्वाद्भवत्येव प्रयोजनं, तत्कामनाsपि प्रेक्षवतां सम्भवत्येवेति नाधिकारिणामप्यसम्भव इति, न चन्द्रानयनोपदेशवन्नागशिरोमण्याहरणोपदेशवाक्यानुष्ठेयार्थत्वं न वोन्मत्तवाक्यसन्दर्भबत्पूर्वापरासङ्गतार्थत्वं न रसाभासादिवर्णनददुत्तमपुरुषानभिमतार्थज्ञानजनकत्वं नातएव चासम्भवद्विशिष्टपुरुषाधिकारत्वमिति निष्कम्पप्रवृत्तिविषयाध्ययनकोऽयं ग्रन्थइति
॥ अथ प्रमाणसामान्यलक्षणनिरूपणम् ॥
४५
अथ प्रथमोद्दिष्टं प्रमाणं निरूपयति ।
पृ. १. पं. ४.
प्रमाणलक्षणमाह-
'तत्रेति" प्रमाणादीनां मध्य इत्यर्थः, देवसूर्युपदिष्टं
पृ. १. पं. ४. “ स्वपरेति" अत्र प्रमाणमितिलक्ष्य निर्देशः, स्वपरव्यवसायिज्ञानमिति लक्षणनिर्देशः, यद्यपि स्वपरव्यवसायित्वस्वरूपप्रकर्षविशिष्टं