________________
जनतर्कभाषा । रकज्ञानानुकूलव्यापारः, जिनमिति द्वितीयार्थश्च कर्मत्वं तच्च प्रकृते विशेष्यत्वं तस्य नमस्कारघटकज्ञाने निरूपकत्वसम्बन्धेनान्वयः, नमस्कार घटकस्वपदेन च नमस्कर्तुग्रहणम् । तथा च ज्ञानातिशय-वचनातिशय-पूजातिशयापगमातिशयचतुष्टयोपपन्नं जिनम्प्रणम्यं [जिनवृत्तिविशेष्याताकं यद्ग्रन्थकत्रविधिकोत्कृष्टत्वप्रकारकं ज्ञानं मतउत्कृष्टो जिनइत्याकारकं तदनुकूलव्यापारानन्तरम् ] इत्यर्थः
पृ. १. पं. ३. "अहं" प्राप्त न्यायविशारद न्यायाचार्यादिविरुदः श्रीमान् यशोविजयः, अस्मच्छब्दस्य अन्यदीय स्वार्थतात्पर्य कोचारणनधी नोच्चारणरूपस्वस्वतन्त्रोचारणकर्तरिशक्तिरिति, प्रकृतास्मच्छब्दोचारयितुः श्रीयशोविजयोपाध्यायस्यास्मच्छब्देनावगतिः । अहम्पदानुपादानेऽपि तनोमीत्युत्तमपुरुषेण तदर्थावगतिः स्यादेव, तथापि स्वगतविदित चारुचिन्तामणित्वादिधर्मलक्षणासाधारण पाण्डित्याभिव्यञ्जनद्वारा स्वकर्तृकोक्तग्रन्थस्योपादेयत्वाभिव्यक्तये तदुक्तिः - पृ. १. पं. ३ "प्रमाणनयनिक्षेपैरिति” समासेऽल्पाचः पूर्वमुपादानमितिनियमेऽपि बह्वचः प्रमाणपदस्य यत्पूर्वमुपादानं तन्नयापेक्षया प्रमाणस्याभ्यहितत्वादिति बोध्यम् , । प्रमाणादीनां स्वरूपं ग्रन्थ एव व्यक्तम् . पृ. १. पं. ३. “तर्कभाषामिति” तय॑न्ते प्रमितिविषयी क्रियन्त इति तर्काः प्रमाणादयस्तेषां भाषाप्रतिपादकवचनसमष्टिः पूर्वापरसङ्गतिविशेषभावापन्नवाक्यकदम्बकसन्निवेशलक्षणसन्दर्भात्माग्रन्थ इति यावत् तान् , नौमि-विस्तारयामि तावन्मात्राभिधाने च तर्कपदव्युत्पत्तिनिमित्तस्य प्रमितिविषयत्वस्य-जीवाऽजीवपुण्यपापबन्धाखवसंवरनिर्जरामोक्षाख्यनवतत्वेयु पुण्यपापयोर्जीवाजीवयोरन्तर्भावमाश्रित्य सप्ततत्त्वेषु जीवपुद्गलधर्माधर्माकाशकालात्मक षड् द्रव्येषु तथा क्रमाक्रमभाविपर्यायेषु च सत्त्वेन तत्प्रतिपादकसन्दर्भविशेषस्यापि तर्कभाषात्वेनोत्तरकालीनकर्तव्यत्वप्रकारकज्ञानानुकूलव्यापारलक्षणप्रतिज्ञाविषयतया ग्रन्थे चास्मिन् जीवादिपदार्थानामनिरूपणेन सम्पूर्णतया प्रतिज्ञाताानिर्वाहान्यूनत्वं स्यात् , व्युत्पत्यर्थमनाश्रित्य चिकीर्षितग्रन्थविशेषे रूढ एवायं तर्कभाषाशब्द इति यावान विषयोऽत्रप्रतिपादितोऽस्ति तावदभिधेयकग्रन्थ एव प्रतिज्ञाविषय इति न प्रतिज्ञातानिर्वाह इति यदि विभाव्यते तदापि चिकीर्षितग्रन्थादौ तदध्ययनादिप्रवृत्यर्थमनुबन्धचतुष्ठयमवश्यमेव वक्तव्यम् । अनुबन्ध चतुष्ठयाज्ञाने