________________
४३
१. प्रमाणपरिच्छेदः। कुर्युरिनि शिष्यशिक्षायै ग्रन्थादौ निवघ्ननग्रन्थाध्ययन प्रवृत्त्यनुकूलानुबन्धचतुष्ठयमुपदशयन् प्रतिजानीते।
पृ. १. पं. २. "पेन्द्रवृन्दनतमिति” अहं तत्वार्यदेशिनमेन्द्रवृन्दनतं जिनं नत्वा तर्कभाषां प्रमाणनयनिक्षेपैस्तनोमीति सम्बन्धः । तत्त्वार्थदेशिनमिति च विशेषणं जिनस्य साक्षाद्वचनातिशयस्य तद्वारा ज्ञानातिशयस्य च ज्ञापनार्थम् , वाक्यरचनाम्प्रति वाक्यार्थज्ञानस्य कारणत्वेन तत्वार्थलक्षणवाक्यार्थज्ञानमन्तरेण तत्त्वार्थोपदेशलक्षणवाक्यस्यासम्भवेन तत्त्वार्थोपदेष्टरिजिने तत्वार्थज्ञानस्यावश्यम्भावात् , अर्थे तत्त्वेति विशेषणोपादानेनात्त्वात्मकस्यैकान्तवाद्यभिमतार्थस्य प्रतिपादक यद्वचनं तन्नातिशय इति तदुपदेष्टणामेकान्तवादसूत्रण कुशलानां सूक्ष्ममतीनामपि न वचनातिशयस्तद्वचनस्यार्थशुद्धयभावात् , वचनस्य देशनास्वरूपतयाभिधानेन समवसरणमभिव्याप्यावस्थितानशेषानपि नरामरतिर्यगादीन् प्रा. णिनः श्रोतन्प्रतिप्रतिनियततत्तद्भाषापरिणतिस्वरूपतयैवाविशेषेणार्थावबोधनिबन्धनत्वमितिशब्दस्य स्वरूपतोऽप्यतिशयावेदिकाशुद्धिरावेदिता भवति, न च तीर्थान्तरीयाणां वचनमिदृशमिति नतस्य स्वरूपतोऽपि वैशिष्टयम् । ऐन्द्रवृन्दनतमिति विशेषणेन पूजातिशयो दर्शितः, यस्य पुरुषधौरे यस्यामराधीश्वरसमूहप्रणति. कर्मत्वं तस्यान्यनरनाथादिपूजनीयत्वं कैमुतिक न्यायागतमेवेत्यतः सर्वेभ्यो नरामराधीश्वरादिपूजार्हस्य पूजातिशयो व्यक्त भवति, यद्यपि इन्द्रवृन्दनतमित्युत्यापि निरुक्तार्थलाभः, तथापि यस्य सारस्वतमन्त्रस्य प्रसादात्कवित्वविवादिप्राप्तिः तस्य मन्त्रस्य सङ्ग्रथनमप्यादौ परमं मङ्गलं यतः सरस्वत्यास्स्मरणमपि हितमाह्वयतीतिमन्यमानः श्रीमान् यशोविजयोपाध्यायः स्त्रोपज्ञेषु सर्वेष्वपि ग्रन्थरत्नेषु ऐङ्कारमादावुपनिबध्नात्येवेत्येदनुरोधेनात्रापि ऐन्द्रवृन्दनतमित्युक्तिः । जिनमितिविशेष्यवचनेन च रागद्वेषादीन शञ्जितवान् इति जिन इति व्युत्पत्तिमहिम्नाऽवयवशक्तिलक्षणयागताऽवयवार्थप्रतिप्रतितोऽपायापगमातिशय आवेदितो भवति । जिनशब्दस्तु ऋषभादिचतुर्विंशतिजिनेषु रूढयैव जिनत्वलक्षणमेकमनुगतप्रवृत्तिनिमित्तमुपादाय प्रवर्तत इति समुदायशक्तिलक्षणरूढिविषये जिनत्वलक्षणानुगतधर्मविशिष्टे नतिक्रियाकर्मणि योगार्थस्य रागद्वेषादिशत्रुजेतृत्वस्यापायापगमातिशयपर्यवसनस्य विशेषणत्वमुपपन्नमेव ॥
पृ. १. पं. २. “नत्वा" नमस्कृत्य, नमस्कारश्च स्ववधिकोत्कृष्टत्वप्रका