________________
। ॐ अर्हम् नमः। श्री रत्नप्रभा टीका॥
-two onceयज्ज्ञाने भाति विश्वं करयदरमिवातीतदोषस्य यस्य ।। वाणी सत्याऽनवद्या मितिनयभजनोद्गारकान्ताऽमितार्था । देवेन्द्राप्तैः सुपूज्यं जिनवरमखिलं मङ्गलं मङ्गलानां ।। विघ्नवातापनुत्यै तमतनुविभवं नौमि योगीशगम्यम् ॥१॥ येषां तत्त्वार्थचर्चा स्वपरमतगता नापसिद्धान्तमुख्यै । र्दोषैः स्पृष्टा गुणोधैरथपरिकलिता बोधसम्पादयित्री ॥ तान् श्रीमद्धेमचन्द्रप्रभृतिबुधवरान्सर्वतन्त्रस्वतन्त्रा । नाचार्यान्नौमि भक्त्या जिनमतविनतोल्लासदत्तावधानान् ॥ २॥ ऊहापोहानुषक्तामितप्रमितिलसन्नव्यमार्गप्रचारा । चान्तस्वान्तावभातातिगहनमननालीढप्राचीनपक्षाः॥ न्यायाचार्याःपरातनुतनुरचनासूत्रधारानमस्याः । सन्तूपाध्यायवर्या मममननविधौ साक्षिणोमानसस्थाः ॥ ३॥ श्रीमन्तो नेमिसूरीश्वरगुरुप्रवराः सर्वविद्याविदग्धा। न्यायालोकादिजैनाभ्युपगतविषयग्रन्थटीकापटिष्ठाः ॥ श्रीहैमव्याकृतेरप्यनुगतिरचनालम्पटा धर्मशास्त्र । व्याख्यानैकान्तदक्षा नुतचरणकजा स्सन्तु विघ्नौघशान्त्यै ॥४॥ श्रीनेमिसूरीश्वरशिष्यरत्न-रत्नप्रभादिप्रतिबोधनाय । रत्नप्रभाख्यां मिततर्कभाषा- व्याख्यां करोमि प्रकटार्थभावाम् ॥५॥
चिकीर्षितग्रन्थनिर्विघ्नसमाप्तये शिष्टाः कचिदप्यभीष्टे प्रवर्तमाना मङ्गलपुरस्सरमेव प्रवर्तन्त इति शिष्टाचारपरिपालनाय च कृतं मङ्गलं शिष्या अप्येवं