________________
अनतर्कभाषा । प्रसिद्धः । यस्तु-अग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्यानुपलम्भ एकः, तदनन्तरमनेरुपलम्भस्ततो धूमस्येत्युपलम्भद्वयम् , पश्चा. दग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुपलम्भपश्चकाद्वयाप्तिग्रहः-इत्येतेषां सिद्धान्तः, ५ तदुक्तम्
"धूमधोर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः।
प्रत्यज्ञानुपलम्भाभ्यामिति पञ्चभिरन्वयः॥" ___ इति; स तु मिथ्या; उपलम्भानुपलम्भस्वभावस्य द्विवि
धस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयतयाऽविचारकतया च १० देशादिव्यवहितसमस्तपदार्थगोचरत्वायोगात् ।
___ यत्तु 'व्याप्यस्याहार्यारोपेण व्यापकस्याहार्यप्रसञ्जनं तर्कः। सच विशेषदर्शनवद विरोधिशङ्काकालीनप्रमाणमात्रसहकारी, विरोधिशङ्कानिवर्तकत्वेन तदनुकूल एव वा। न चायं स्वतः
प्रमाणम्' इति नैयायिकैरिष्यते; तन्न; व्याप्तिग्रहरूपस्य तर्कस्य १५ स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात्, पराभिमततर्कस्यापि
कचिदेतद्विचाराङ्गतया, विपर्ययपर्यवसायिन आहार्यशङ्काविघटकतया, स्वातन्त्र्येण शङ्कामात्रविघटकतया वोपयोगात् । इत्थं चाज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सत्येव तन्न (तत्र) मिथ्याज्ञानरूपे व्यवच्छे ये सङ्गच्छते, ज्ञानाभावनिवृत्ति२० स्त्वर्थज्ञातताव्यवहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामा. , न्यतः फलमिति द्रष्टव्यम् ।
। अथ अनुमानप्रमाणनिरूपणम् । साधनात्माध्यविज्ञानम्-अनुमानम् । तद् द्विविधं स्वार्थ परार्थ च । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं २५ स्वार्थम् , यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य ‘पर्वतो वह्निमान्'
इति ज्ञानम् । अत्र हेतुग्रहण-सम्बन्धस्मरणयोः समुदितयोरेव कारणत्वमवसेयम् , अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्यागृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् ।