________________
१. प्रमाणपरिच्छेदः ।
ऊहस्तकः, यथा 'यावान् कश्चिद्धमः स सों बलौ सत्येव भवति, वहिं विना वा न भवति' 'घटशब्दमानं घटस्य वाचकम् ' 'घटमात्रं घट शब्दवाच्यम्' इत्यादि । तथाहि-स्वरूपप्रयुक्ताऽव्यभिचारलक्षणायां व्याप्तौ भूयोदर्शनमहितान्वयव्यतिरेकसहकारेणापि प्रत्यक्षस्य तावदविषयत्वादेवाप्रवृत्तिः, ५ सुतरांच मकलमाध्यसाधनव्यक्तयुपसंहारेण तद्ग्रह इनि साध्यमाधनदर्शनस्मरणप्रत्यभिज्ञानोपजनितस्तर्क एव तत्प्रतीतिमाधातुमलम् ।
अथ स्वव्यापकमाध्यसामानाधिकरण्यलक्षणाया व्याप्त ग्यत्वाद् भूयोदर्शनव्यभिचारादर्शनसहकृतेनेन्द्रियेण व्याप्ति. १० ग्रहोऽस्तु, सकल साध्यसाधनव्यक्त्युपसंहारस्यापि सामान्यलक्षणप्रत्यासत्त्या सम्भवादिति चेत् ; न; 'तर्कयामि' इत्यनुभवसिद्धेन तणैव सकलसाध्यसाधनव्यक्तयुपसंहारेण व्याप्तिग्रहोपपत्ती सामान्यलक्षणप्रत्यासत्तिकल्पने प्रमाणाभावात्, ऊहं विना ज्ञातेन सामान्येनापि सकलव्यक्तयनुपस्थितेश्च । वाच्य- १५ वाचकभावोऽपि तर्केणैवावगम्यते, तस्यैव सकलशब्दार्थगोचरस्वात् । प्रयोजकवृद्धोक्तं श्रुत्वा प्रवतेमानस्य प्रयोज्यवृद्धस्य चेष्टामवलोक्य तत्कारणज्ञानजनकतां शब्देऽवधारयन्तो(यतो)ऽन्त्यावयवश्रवण-पूर्वावयवस्मरणोपजनितवर्णपदवाक्यविषयमङ्कलनात्मकप्रत्यभिज्ञानवत आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण २० च वाच्यवाचकभावप्रतीतिदर्शनादिति । अयं च तर्कः सम्बन्ध प्रतीत्यन्तरनिरपेक्ष एव स्वयोग्यतासामर्थ्यात्सम्बन्धप्रतीतिर्जन यतीति नानवस्था ।
प्रत्यक्षपृष्ठभाविविकल्परूपत्वान्नायं प्रमाणमिति यौद्धाः; तन्नः प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि प्रत्यक्षगृहीतमात्राध्यव- २५ सायित्वेन सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावात् । तादृशस्य तस्य सामान्यविषयस्याप्यनुमानवत् प्रमाणत्वात् , अवस्तुनिर्भासेऽपि परम्परया पदार्थप्रतिबन्धेन भवतां व्यवहारतः प्रामाण्य