________________
। जैनतर्कभाषा। "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ।।१।। प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणतो ॥२॥"
श्लोकवा० उप० श्लो० ३७-३८] . . इति; तन्न; दृष्टस्य सादृश्यविशिष्टपिण्डस्य स्मृतस्य च गोः सङ्कलनात्मकस्य 'गोसहशो गवयः' इति ज्ञानस्य प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा 'गोविसदृशो महिषः' इत्या
देरपि सादृश्याविषयत्वेनोपमानातिरेके प्रमाणसङ्ख्याव्याघा१. तप्रसङ्गात् ।
एतेन- गोसदृशो गवयः' इत्यतिदेशवाक्यार्थज्ञानकारणकं सादृश्यविशिष्टपिण्डदर्शनव्यापारकम् 'अयं गवयशब्दवाच्यः' इति सज्ञासज्ञिसम्बन्धप्रतिपत्तिरूपमुपमानम्-इति
नैयायिकमतमप्यपहस्तितं भवति । अनुभूतव्यक्ती गवयपद१५ वाच्यत्वसङ्कलनात्मकस्यास्य प्रत्यभिज्ञानत्वानतिक्रमात् प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण यद्धविच्छेदेातिदेशवाक्यानूधधर्मदर्शनं तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोपपत्तेः। अत एव “पयोम्बुभेदी हंसः स्यात्" इत्यादिवाक्यार्थज्ञानवतां
पयोऽम्बुभेदित्वादिविशिष्टव्यक्तिदर्शने सति 'अयं हंसपद२० वाच्यः' इत्यादिप्रतीतिर्जायमानोपपद्यते । यदि च 'अयं गव.
यपदवाच्यः' इति प्रतीत्यर्थ प्रत्यभिज्ञातिरिक्तं प्रमाणमाश्रीयते तदा आमलकादिदर्शनाहितसंस्कारस्य बिल्वादिदर्शनात् 'अतस्तत् सूक्ष्मम्' इत्यादिप्रतीत्यर्थ प्रमाणन्तरमन्वेषणीयं स्यात् ।
मानसत्वे चासामुपमानस्यापि मानसत्वप्रसङ्गात् । 'प्रत्यभि२५ जानामि' इति प्रतीत्या प्रत्यभिज्ञानत्वमेवाभ्युपेयमिति दिक् ।
। अर्थ तर्कस्यनिरूपणम् । सकलदेशकालायवच्छेदेन साध्यसाधनभावादिविषय