________________
१. प्रमाणपरिच्छेदः ।
। अथ हेतुस्वरूपनिरूपणम् । निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः। सथाहि-विलक्षण एव हेतुरिति बौद्धाः । पक्षधर्मत्वाभावेऽसिद्वत्वव्यवच्छेदस्य, सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चानैकान्तिकत्वनिधस्यासम्भवेनानु- ५ मित्यप्रतिरोधानुपपत्तेरिति; तन्न; पक्षधर्मत्वाभावेऽपि उदेष्यति शकटं कृत्तिकोदयाद् , उपरि सविता भूमेरालोकवत्त्वाद् , अस्ति नभश्चन्द्रो जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिमत्त्वात्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम् ; अननुभूयमानधर्मिवि- १० षयत्वेनेत्थं पक्षधर्मत्वोपपादने जगद्धर्म्यपेक्षया काककान प्रासादधावल्यस्यापि साधनोपपत्तेः ।
ननु यद्येवं पक्षधर्मताऽनुमितो नाङ्गं तदा कथं तत्र पक्षभाननियम इति चेत् : क्वचिदन्यथाऽनुपपत्त्यवच्छेदकतया ग्रहणात् पक्षभानं यथा नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र, १५ कचिच्च हेतुग्रहणाधिकरणतया यथा पर्वतो वह्निमान् धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद्वहेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु पर्वतस्य मर्वत्रानुवृत्त्यभावेन न ग्रह इति ।
यत्त अन्तर्याध्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गमानम् , तदुक्तम्-“पक्षीकृत एवं विषये साधनस्य २० साध्येन व्याप्तिरन्ताप्तिः, अन्यत्र तु बहिर्व्याप्तिः" (प्र. न. ३. ३८) इति; तन्न; अन्तव्याच्या हेतोः साध्यप्रत्यायनशक्तो सत्यां बहिर्व्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन तस्याः म्वरूपप्रयुक्त (क्ताऽ)व्यभिचारलक्षणत्वस्य, बहिव्याप्तेश्च सहचारमात्रत्वस्य लाभात्, सार्वत्रिक्या व्याप्तेविषयभेदमात्रेण भेदस्य दुर्वचत्वात्। २५ नचेदेवं तदान्ताप्तिग्रहकाल एष एव(काल एव) पक्षसाध्यसंसर्गभानादनुमानवैक(फ)ल्यापत्तिः विना पर्वतोवहिमानित्युद्देश्यप्रतीतिमिति यथातन्त्रं भावनीयं सुधीभिः । इत्थं च 'पक्का