________________
चैनतर्कभाषा । पृ.३९५.१५किञ्च-अत्र यद्यपि सङ्ग्रहव्यवहारयोर्मध्ये सामान्यमात्रावगाहिनो नैगमस्य सङ्ग्रहे विशेषमात्रावगाहिनो नैगमस्य व्यवहारेऽन्तर्भावागममतमपि सङ्ग्रहव्यवहारमतयोरन्तर्भूतमेवेतिव्याख्या न सम्भवति तथापि तथा व्याख्याने सङ्ग्रहव्यवहारयोः स्थापनावर्जने नैगमेऽपि स्थापनावर्जनस्य प्राप्तत्वात् , सङ्घहव्यवहारयोरन्यत्र द्रव्याथिके स्थापनाभ्युपगमावर्जनादिति पूर्वग्रन्थो न सङ्गतो मवेदिति न तथाव्याख्यातम् ।
पृ. ३९ पं. १४ तन्मतमपि-सङ्ग्रहव्यवहारमतमपि । पृ. ३१ पं. १५ तत्र-स्थापनाभ्युपगमलक्षणनैगममते ।
पृ. ३९ पं. १५ उभयधर्मलक्षणस्य विषयस्य-नैगमे विषयीभूतस्य सामान्यविशेषोभयात्मकस्थापनाभ्युपगमस्य ।
पृ. ३९ पं. १५ प्रत्येकम्-व्यवहारविषयीभूते विशेषात्मकस्थापनाऽभ्युपगमे समाविषयीभूते सामान्यात्मकस्थापनाभ्युपगमे ।
पृ. ३९ पं. १५ अप्रवेशेऽपि-तयोरेकैकमात्राभ्युपगमत्वतः सामान्यवि. शेषोभयाभ्युपगन्तृत्वाभावात्सामान्यविशेषोभयात्मकस्थापनाभ्युपगमत्वेन रूपेण नैगममतमात्रवृत्तिना तदभिन्नतालक्षणप्रवेशाऽसम्भवेऽपि।
. पृ. ३९ पं. १६ स्थापनालक्षणस्यैकधर्मस्य-सामान्यात्मकस्थापनाऽपि स्थापना भवति, विशेषात्मकस्थापनाऽपि स्थापनाभवत्येति कृत्वा स्थापनाम्युपगमत्वं नैगममते सङ्ग्रहमते व्यवहारमते चाविशिष्टमिति तद्रूपस्य प्रवेशस्य ।
पृ. ३९ पं. १६ सूपपादत्वात्-स्थापनाभ्युपगमलक्षणे सङ्ग्रहव्यवहारमते नैगममतात्मके स्थापनाभ्युपगमत्वात् तथाविधनगममतवदित्येवमुपपादयितुं शक्यत्वात् । स्थापनाभ्युपगमत्वलक्षणसाधारणधर्मेण स्थापनासामान्याभ्युपग. मत्वस्थापनाविशेषाभ्युपगमत्वलक्षणस्वस्वासाधारणधर्मेण भेदोऽप्यन्योन्यमुपपद्यत इत्याह।