________________
१. प्रमाणपरिच्छेदः । पृ. ३९ पं. १६ स्थापना सामान्येति-तद्विशेषेति ।
पृ. ३९ पं. १७ स्थापनाविशेषेति-न चैषा स्वमनीषा, किन्त्वागमप्ररूपणैवेत्याह।
पृ. ३९ पं. १८ यथागममिति-आगममनतिक्रम्येत्यर्थः । न चेयमस्तिस्समनानुपूर्ध्या आगमे न दृश्यत इत्यत आह ।
पृ. ३९. पं. १८ भावनीयम्-आगमनिष्णातसुधीभिरिति शेषः तथा चागमार्थविचारणया मजयन्तरेणागमोक्तमेवैतदिति सुधियां बुद्धिमधिरोहतीति । तमानवद्यमित्यादिनाऽत्र दर्शिता सङ्ग्रहव्यवहारयोः स्थापनाभ्युपगमसमर्थनप्रक्रिया विशेषावश्यके इत्थं दृश्यते तत् परिहरन्नाह इह सङ्ग्रहिको सङ्ग्रहिकः सर्वो वा नैगमस्तावत् निर्विवादं स्थापनामिच्छत्येव, तत्र सङ्ग्रहिका सङ्ग्रहमतावलम्बी सामान्यवादीत्यर्थः, असञहिकस्तु व्यवहारमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः । ततथ यदि सङ्ग्रहमतावलम्बी नैगमः स्थापनामिच्छति बर्हि सङ्ग्रहस्तत्समानमतोऽपि ता किं नेच्छति? इच्छेदेवेत्यर्थः । अथ यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपतेरसङ्ग्रहिकोऽसौ तामिच्छतीति प्रतिपतव्यं, न सङ्ग्रहिकः, न ततः सङ्ग्रहस्य स्थापनेच्छा निषिभ्यते (विधीयते) तर्हि एकत्र संघित्सतोऽन्यत्र प्रच्यवते एवं हि सति व्यवहा. रोऽपि स्थापना किं नेच्छति ! कुतः ! असङ्ग्रहिकनेगमसमानधर्मा व्यवहारनयोऽपि वर्तते ततश्चैषोऽपि स्थापनामिच्छेदेवेति निषिद्धा चास्यापि त्वया, अथ परिपूर्णो नैगमः स्थापनामिच्छति न तु सङ्ग्रहिकोऽसङ्ग्रहिको वेति मेदवान् अतस्तद् दृष्टान्तात्सअहव्यवहारनयोने स्थापनेच्छा साधयितुम् अत्रोच्यते-तर्हि नैगमसमानधर्माणो द्वावपि समुदितौ सङ्ग्रहव्यवहारौ युक्तावेव । इदमत्र हृदयम्-तर्हि प्रत्येकं तयोरेकतरनिरपेक्षयोः स्थापनाऽभ्युपगमो माभूदिति समुदितयोस्तयोस्सम्पूर्णनैगमः केन वार्यते ! अविभागस्थागमात्प्रत्येकं तदेकैकताग्रहणादिति" किश्च समहव्यवहारयोरित्यादिना दर्शिताया युक्तस्तत्रैवं प्ररूपणा" इदमुक्त भवति-यथा विभिनयोः सङ्ग्रह-व्यवहारयो गमोऽन्तर्भूतः तथा स्थापनाभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेव, ततो भिन्नं भेदेन तौ तदिच्छत एव,