________________
१. प्रमाणपरिच्छेदः । स्थापनाभ्युपगन्तृत्वेऽपि प्रकृते किमायातमित्यत आह । ।
पृ. ३९ पं. ८ तत्रेति-नैगमस्य स्थापनाऽभ्युपगमे सतीत्यर्थः । पृ. ३९ पं. ८ आयपक्षे-सङ्ग्रहिको नैगमः, स्थापनामभ्युपगच्छतीति
पक्षे।
___ पृ. ३९ पं. ९ द्वितीये-असङ्ग्रहिको गमः स्थापनामभ्युपगच्छतीति
पक्षे।
पृ. ३९ पं. ९ तदभ्युपगमप्रसङ्गः-स्थापनाभ्युपगमप्रसङ्गः। पृ. ३९ पं. १० तन्मतस्य-असङ्ग्रहिकनैगममतस्य ।
पृ. ३९ पं. १० तृतीये च-सामान्यविशेषोभयग्राही या परिपूर्णो नैगमः स स्थापनामभ्युपगच्छतीति पक्षे च ।
पृ. ३९ पं. ११ स्थापनानभ्युपगमोपपत्तावपि-स्थापनानम्युपगमोपपचावपीत्येव पाठो युक्तः, समुदितयोरित्यनन्तरं सङ्ग्रहव्यवहारयोरिति सम्बद्धयते ।
पृ. ३९ पं. १२ तदभ्युपगमस्य-स्थापनाभ्युपगमस्य । पृ. ३९ पं. १२ अविभागस्थान-संपूर्णान् ।
पृ. ३९ पं. १३ प्रत्येकम्-समुदितयोः सङ्ग्रहयोरेकैकेन पृथक् सङ्ग्रहेण पृथक् व्यवहारेण ।
पृ. ३९ पं. १३ तदेकैकभामग्रहणात्-नैगमैकभागस्य सामान्यग्राहि त्वस्य सङ्ग्रहेण नैगमैकभागस्य विशेषग्राहित्वस्य व्यवहारेण ग्रहणात् स्वधर्मतया- :ऽऽश्रयणादित्यर्थः । अपि च नैगमस्य यः सामान्यावगाहनलक्षणो भागस्स एव व्यवहार इत्येवं सङ्ग्रहव्यवहारौ नैगमान्तर्भूताव एवञ्च नैगमस्य यन्मतं तन्म- . तान्तर्गतमेव सङ्ञहन्यवहारयोरपि मते स्थापनाभ्युपगमोऽस्तीत्यायातमेवेति तत्र तर्जनं न युक्तमित्याह ।
21