________________
जेनतर्कभाषा । शब्दस्तु नामलक्षणो वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाबाह्यतर इति अतो भावे सनिहितत्वान्नामेवर्जुसूत्रो द्रव्यस्थापने सन्निहिततरत्वात्सुतरामिच्छेदिति" एतावता ऋजुसूत्रस्य निःक्षेपचतुष्टयाम्युपगन्तृत्वं निष्टङ्कितम्, अथ सङ्ग्रहव्यवहारयोस्तत्पसाधनायायोपक्रमः, तत्र सङ्ग्रहव्यवहारौ स्थापनान्नाभ्युपगच्छत इति केषाश्चित्मतं प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. ३९ पं. ४ सङ्ग्रव्यवहारौ ... जीन्-नामद्रव्यमावान् ।
पृ. ३९ पं. ५ तन्नानवद्यम्-उक्तमतं न निर्दुष्टम् , तत्र हेतुमाह ।
पृ. ३९ पं ५ यतः-नैगमो नयस्त्रिविधः सङ्ग्रहिकासङ्ग्रहिकसर्वमेदात् तत्र सङग्रहिकः सङ्ग्रहमतावलम्बी, सामान्यमात्रग्राहीति यावत् , असङ्ग्रहिको व्यवहारमतावलम्बी विशेषमात्रग्राहीति यावत् सर्वः अनर्पितभेदः परिपूर्णः सामान्यविशेषोभयग्राहीति यावत् स च नैगमः स्थापनामम्युपगच्छतोति भवतोऽपि सम्मतं, संग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवताऽभिधानात , एवं च यदि सामान्यमात्रग्राही नैगमः स्थापनामिच्छति कथं तर्हि सामान्यमात्रग्राहित्वेन तदविशिष्टः सङ्ग्रहः स्थापना नाम्युपेयात् , एवं विशेषमात्रग्राही नैगमो यदि स्थापना स्वीकरोति कथं विशेषमात्रग्राहित्वेन तदविशिष्टो व्यवहारो न स्थापना स्वीकुर्यात् , तथा सामान्यविशेषोभयग्राही नगमो यदा स्थापनाभ्युपगन्ता तदा निरपेक्षयोस्सङ्ग्रहव्यवहारयोः सामान्यविशेषोभयग्राहित्वाभावात्तदविशिष्टत्वाभावाचद् दृष्टान्तावष्टम्भेन स्थापनाभ्युपगन्तृत्वस्य साधयितुमशक्यत्वेऽपि परस्पर सापेक्षत्वेन समुदितरूपयोः सङ्ग्रहव्यवहारयोः परिपूर्णनगमरूपत्वसम्भवतः स्थापनाभ्युपगन्तृत्व स्यादेवेत्याह ।
पृ. ३९ पं. ५ संग्रहिक इति-नैगमः स्थापनामुपगच्छतीति कथमभ्युपेयमित्यपेक्षायामाह।
पृ. ३९ पं. ७ सङ्ग्रहव्यवहारयोन्यत्र-सङ्ग्रहव्यवहारभिन्ने द्रव्याथिकनये स्थापनाभ्युपगमवर्जनस्याभावात् सङग्रहव्यवहारौ स्थापनाव नित्युक्तया सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवता कृतत्वादित्यर्थः ननु नैगमस्य