________________
' जैनतर्कभाषा । विशेषग्राहिणो नैगमस्य व्यवहारेऽन्तर्भावान्न पृथक्तयामभिधानमतो द्रव्यास्तिकस्य संग्रहव्यवहाराम्यां द्वैविध्यं सिद्धसेनमतं युक्तमेवेति भावः, तद्वैविध्यप्रतिपादनपरा श्रीसिद्धसेनगाथा सम्मतिविषया ।"
द्रवट्ठियनयपयडी सुद्धा संगहपरूवणविसओ। पडिरूवे पुण वयणस्थनिच्छओ तस्स ववहारो॥ १ ॥ इति द्रव्यास्तिकनयप्रकृतिः शुद्धा संग्रहप्ररूपणाविषयः ।
प्रतिरूपं पुनः वचनार्थनिश्चयस्तस्य व्यवहारः ॥ इतिएतनिर्गलितार्थः टीकायां "अत्र च संग्रहनयः शुद्धो द्रव्यास्तिकः व्यवहारनयस्त्वशुद्ध इति” एतेन द्रब्यास्तिकस्य संग्रहव्यवहाराभ्यां द्वैविध्यं तदनुमतं स्पष्टं प्रतीयते, नयनिरूपणावसरे पर्यायार्थिकश्चतुर्धेति यदुक्तं तत्सिद्धसेनमतमेवालम्ब्य, तत्रैव ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः" इत्यनेन जिनभद्रगणिक्षमाश्रमणमते पर्यायास्तिकस्य त्रैविध्यमेव ज्ञायते, परं चातुर्विभ्याभिधाने आचार्यसिद्धसेनमत इत्युल्लेखाभावान स्पष्टप्रतीतिरत आह ।।
पृ. ३८ पं. ८ ऋजुसूत्रादयश्च...द्वितीयस्य-पर्यायास्तिकनयस्य तत्प्रतिपादनपरा सम्मतिगाथा चेयम् “मूलणिमेण पज्जवणयस्स उज्जुसुरणविच्छेओ। तस्स उ सदाइआ साहापसाहा सुहुमभेआ॥ इति ॥ मूलमात्रं पर्यवनयस्य जुस्त्रवचनविच्छेदः तस्य तु शब्दादिकाश्शाखाप्रशाखास्सूक्ष्ममेदाः ॥ इति । एवभिगलितार्थों यथा टीकायाम् "पर्यायनयस्य प्रवृत्तिराद्या ऋजुसूत्रः सत्वशुद्धा, शब्दः शुद्धा, शुद्धतरा समभिरूढः अत्यन्तशुद्धा त्वेवम्भूत इति"
पृ. ३८ पं. ९ इत्याचार्येणेति-उक्तस्वरूपं यदाचार्यसिद्धसेनमतं तदनुसारेणेत्यर्थः । अभिहितमिति विशेषावश्यकेभिहितमिति ।
पृ. ३८ पं. ११ नामाइतियं-" नामादित्रिकं द्रव्यार्थिकस्य भावश्च पर्यव• नयस्य । संग्रहव्यवहारौ प्रथमस्य शेषास्त्वितरस्य इति । नामादित्रिकं द्रव्यार्थिकानुमतमिति तु सिद्धसेनमतमनया ।