________________
१. प्रमाणपरिच्छेदः। " नाम ठवणा दविएति एस दवट्ठियस्स निक्खेवो। भावो उ पज्जवठियस्स परूवणा एस परमत्थो । इति गाथया ज्ञायते नाम स्थापना द्रव्यमित्येष द्रव्यार्थिकस्य निक्षेपः । ...
भावस्तु पर्यायार्थिकस्य प्ररूपणा एष परमार्थः ॥ इति ॥ ननु पुज्यैर्यदि सिद्धसेनमतानुसारेण नामादिनिक्षेपत्रयं द्रव्यार्थिकस्य, भावनिक्षेपः पर्यायार्थिकस्येत्यभिहितं तर्हि पूज्यमते कीदृशी तद्व्यवस्थेत्यपेक्षायामाह।
पृ. ३८ पं. १३ स्वमतेतु-जिनभद्रगणिक्षमाश्रमणपूज्यपादमते पुनरित्यर्थः।
पृ. ३८ पं. १४ भावं चिय-भावं चैव शब्दनयाः शेषा इच्छन्ति सर्व निःक्षेपान्" इति।
पृ. ३८ पं. १५ त्रयोऽपि-शब्द-समभिरूढेवम्भूताख्यास्त्रयोऽपि । .
पृ. ३८ पं. ऋजुसूत्रादयस्तु-नैगमादय इति वक्तव्ये यदेवमभिधानं तद् अजुसूत्रस्य द्रव्यार्थिकत्वस्पष्टपतिपत्तये, चत्वारः ऋजुसूत्र-जैगम-सङ्ग्रहव्यवहाराः। - पृ. ३८ पं. १६ चतुरोऽपि-नाम-स्थापना-द्रव्य-भावानपि, ननु नैगमसङ्ग्रह-व्यवहाराणां निःक्षेपचतुयाष्टभ्युपगन्तृत्वं भवतु नाम, अजुसूत्रस्तु पर्यायाभ्युपगन्ता द्रव्यं नेच्छत्येव नापि स्थापना किन्तु नामभावनिःक्षेपावेवाभ्युपगच्छतीत्यविशेषेण नैगमादिनयैस्सह ऋजुत्रस्य निःक्षेपचतुष्टयाभ्युपगन्तृत्वाभिधानं न युक्तमिति नाशङ्कनीयं, नामभावनिक्षेपावेव ऋजुत्र इति परेषाम्मतं न तु सूत्रानुयायिनां, सूत्रे ऋजुसूत्रस्य द्रव्याभ्युपगन्ततया भणनादित्याशयेनान्येषां. म्मतम्प्रतिक्षेप्तुमुपन्यस्यति ।
पृ. ३८ पं. १७ ऋजुत्रो... पृथक्त्वाभ्युपगमस्य-अनेन वर्चमानमेव वस्तूपेयते नातीतानागते नापि परकीयं किन्तु स्वगतमेवेति अतीतानागतमेदापेक्षया परकीयमेदापेक्षया च पृथक्त्वाभ्युपगमस्य पार्थक्याभिसन्धेः परं केवलं निषेधात् वत्र नास्तीति सूत्रे प्रतिपादनाव, ऋजुत्रस्य द्रव्याभ्युपगन्तृत्वमस्ति, पृथक्त्वाभ्युपगमो नास्तीत्युपदर्शकमनुयोगद्वारसूत्रमुपदर्शयति ।