________________
नतर्कभाषा। परमे का नाम धारणा ? उपयोगसातत्यलक्षणा अविच्युतिश्चापायान्नातिरिच्यते । या च घटाछुपयोगोपरमे सङ्खयेयमसङ्खयेयं वा कालं वासनाऽभ्युपगम्यते, या च 'तदेव' इतिलक्षणा स्मृतिः
सा मत्यंशरूपा धारणा न भवति मत्युपयोगस्य प्रागेवोपरत५ त्वात्, कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्यां धारणायां स्मृत्यन्तर्भावादिति चेत्, न; अपायप्रवृत्त्यनन्तरं क्वचिदन्तमुहूर्त यावदपायधाराप्रवृत्तिदर्शनात् अविच्युतेः, पूर्वापरदर्श नानुसन्धानस्य 'तदेवेदम्' इति स्मृत्याख्यस्य प्राच्यापायपरि
णामस्य, तदाधायकसंस्कारलक्षणाया वासनायाश्च अपायाभ्य१० धिकत्वात्।
नन्वविच्युतिस्मृतिलक्षणो ज्ञानभेदी गृहीतग्राहित्वान्न प्रमाणम् ; संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वेति त्रयी गतिः ? तत्र-आद्य
पक्षद्वयमयुक्तम् ; ज्ञानरूपत्वाभावात् तद्भेदानां चेह विचार्य१५ त्वात् । तृतीयपक्षोऽप्ययुक्त एव; सङ्खयेयमसङ्खयेयं वा कालं
वासनाया इष्टत्वात्, एतावन्तं च कालं वस्तुविकल्पायोगादिति न कापि धारणा घटतं इति चेत् ; न; स्पष्टस्पष्टतरस्पष्टतमभिन्न धर्मकवासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेःप्रागन
नुभूतवस्त्वेकत्वग्राहित्वाच्च स्मृतेः अगृहीतग्राहित्वात्, स्मृति- २० ज्ञानावरणकर्मक्षयोपशमरूपायास्तद्विज्ञानजननशक्तिरूपायाच
वासनायाः खयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदाभिधानाविरोधादिति ।
एते चावग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते, ज्ञेयस्येत्थमेव ज्ञानजननखाभाव्यात् । कचिदभ्यस्तेऽपाय२५ मात्रस्य दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणेऽप्युत्पलपत्र.
शतव्यतिभेद इव सौक्षम्यादवग्रहादिक्रमानुपलक्षणात् । तदेवम् अर्थावग्रहादयो मनइन्द्रियैः षोढा भिद्यमाना व्यञ्जनावग्रहचतुभैदैः सहाष्टाविंशतिर्मतिभेदा भवन्ति । अथवा बहु-बहुविध