________________
१. प्रमाणपरिच्छेदः ।
- क्षिप्रा -ऽनिश्रित निश्चित-ध्रुवैः सप्रतिपक्षैद्वादशभिर्भदेर्भिन्नानामेतेषां षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्रादयश्च भेदा विषयापेक्षा ; तथाहि - कश्चित् नानाशब्दसमूहमाकर्णितं बहुं जानाति - ' एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दा:' इति पृथग्भिन्नजातीयं क्षयोपशमविशेषात् परिच्छिन- ५ त्तीत्यर्थः । अन्यस्त्वत्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोपशमवैचित्र्यात् बहुविधम् एकैकस्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाप्याकलनात् । परस्त्वबहुविधम्, स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रम्, शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रम् १० चिरविमर्शेनाकलनात् । परस्त्वनिश्रितम्, लिङ्गं विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितम्, लिङ्गनि श्रयाऽऽकलनात् । [ कश्चित्तु निश्चितम् विरुद्धधर्मानालिङ्गितत्वेनावगतेः । इतरस्त्वनिश्चितम् विरुद्धधर्मालिङ्गिततयावगमात् ।] अन्यो ध्रुवम्, बह्रादिरूपेणावगतस्य सर्वदैव तथा बोधात् । अन्यस्त्वध्रुवम्, १५ कदाचिद्रह्रादिरूपेण कदाचित्त्वबह्रादिरूपेणावगमादिति । उक्ता मतिभेदाः ।
"
1
| अथ श्रुतज्ञाननिरूपणम् |
श्रुतभेदा उच्यन्ते श्रुतम् अक्षर- सञ्ज्ञि - सम्यक् - सादिसपर्यवसित-गमिकाऽङ्गप्रविष्टभेदैः सप्रतिपक्षैश्चतुर्दशविधम् । २० तत्राक्षरं त्रिविधम्-सञ्ज्ञा - व्यञ्जन - लब्धिभेदात् । सञ्ज्ञाक्षरं बहुविधलिपि भेदम्, व्यञ्जनाक्षरं भाष्यमाणमकारादि- एते चोपचाराच्छ्रुते । लब्ध्यक्षरं तु इन्द्रियमनोनिमित्तः श्रुतोपयोगः, तदावरणक्षयोपशमो वा एतच्च परोपदेशं विनापि नासम्भाव्यम्, अनाकलितोपदेशानामपि मुग्धानां गवादीनां च शब्द- २५ श्रवणे तदाभिमुख्यदर्शनात् एकेन्द्रियाणामप्यव्यक्ताक्षरलाभाच्च । अनक्षरश्रुतमुच्छ्वासादि, तस्यापि भावश्रुतहेतुत्वात्, ततोsपि 'सशोकोऽयम्' इत्यादिज्ञानाविर्भावात् । अथवा श्रुतोपयुक्तस्य सर्वात्मनैवोपयोगात् सर्वस्यैव व्यापारस्य श्रुतरूप
"